________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8688
A DESCRIPTIVE CATALOGUE or
नोचेद्दीनदयालुदैन्यवचनैस्तच्छ्रोष्यते केवलं चित्तं संमदमातनोति कृतिनः किं तावता स्वान्तरे ॥ सुगुणापि हन्त विगुणा भवति खला स्याद्विचित्रवर्णापि । आखुमुखादिव शाटी पदपरिपाटी कवेः कापि ॥ सदोषमपि निर्दोष भवत्यग्रे विपश्चितः । रामस्येवार्जुनवपुः कवेश्च सरसं वचः ॥
End:
श्रीभानुना कविना स्वकृतेन आत्मनिर्मितेन पद्येन श्लोकेन ; एकत्वमविवक्षितम् । योजिता संहिता वाग्देवीश्रुतिपारिजातकुसुमस्पर्धाकरी वाग्देव्याः श्रोत्रे यत् पारिजातकुसुमं तत्सदृशी मञ्जरी जयतु आकल्पं तिष्ठतु ।।
स्वस्ति स्तादतुलं समस्तवसुधाधीशस्य सर्वोत्कटस्फारो-वलयकभूषणगुणग्रामस्य कल्पावधि । श्रीमचन्द्रमणेर्बुधव्रजमहाचिन्तामणेरणवप्रोद्यद्रनशिरोमणेरखिलसद्धर्मैकरक्षामणेः ॥ यदीयगुणवर्णने दशशती मुखानां परं सखेदमिव भोगिनः किमपि नैव शक्ताभवत् । तदीयकुतुकान्मया यदिह किंचिदावेदितं तदेतदखिलं पदे नरहरेश्चिरं तिष्ठतु ॥ यदपि हृदयहारि व्यङ्गयमन्यच्चकास्ति प्रतिपदमपि भानोर्वाग्विलासे रसाले । तदपि न च मयैतद्न्थबाहुल्यभीत्या
प्रकटितमिह बुद्धया भावनीयं बुधैरतत् ॥ Colophon:
इति श्रीगौतमीतीरपुण्यस्तम्भस्थितिमतिविलासशालिनीलकण्ठपण्डिततनूजबालोपण्डिताङ्गजश्रीमत्र्यम्बकपण्डितात्मजानन्तपण्डितविरचिता श्रीमहाराजाधिराजप्रभुकुलतिलकायमानश्रीवीरसिंहदेवतनूजप्रौढप्रतापधुमणिमरीचिनिरस्तसकल - जनदुःखौघध्वान्तश्रीचन्द्रभानुकुतूहलकुमुदवनविकासिनी रसमञ्जरीव्यङ्गयार्थकोमुदी संपूर्णतामगात् ॥
For Private and Personal Use Only