________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THB SANSKRIT MANUSCRIPTS.
8687
त्रुट्यन्मातङ्गकुम्भस्थलबहलगलच्चारुमुक्ताकलापप्रोद्यत्सत्सैकतान्तःपतितगजघटाकोटिशुण्डादिनका ॥ अजनि ततो जनगीयमानकीर्तिमधुकरशाह इति प्रसिद्धनामा । जगति जनार्दनचिन्तनैकचित्तः स्फुरदुरुसूर्यसहस्रकोटिधामा । तस्मादभूच्छ्रीबरवीरसिंहदेवाभिधानः प्रभुतानिधानम् । कलासु सर्वास्वथ पुण्यदासु विशारदः शारदचन्द्रकान्तः ।। यस्य स्फारविपक्षपक्षसुवधूवैधव्यदीक्षागुरुः संग्रामाध्वरकर्ममर्मकुशलः प्रत्यर्थिपृथ्वीभुजाम् । प्राणानय॑मणे(नां समरे) मयापहरणं नाकारि किंतु प्रभो भ्रूभङ्गेन तवेति दिव्यमभजत्कोशं सुखड्गः परः । तदात्मजः साधुगुणैरुपेतः श्रीचन्द्रभानुः प्रथितः पृथिव्याम् । वर्ति सर्वोपरि गीतकीर्तिः सदा मुदा ध्यानपरः परेशे ।। यस्य श्रीक्षितिपालमौलिनृपतेर्दानाम्बुनोत्पादितः स्वःशाखीति विभाव्यते बुधगणैस्तत्वार्थसंदर्शिभिः । या केनापि कदापि किं चिदपि वा नालम्बि सा वाल्पतो नो चेदुत्कटदानरीतिरभवत्कस्मादमुष्मिस्तरौ ॥ विद्वद्भिः समुपाश्रिता मुनिगणतातैः पुराणैः पुरा शाखाभिर्निगमद्रुमस्य रचिता विद्यातरिः सादरम् । ममाप्यत्र दरिद्रभावजलधौ सत्कर्णधाराधिकश्रीवीरोद्भटचन्द्रभानुविभुना येनाधुना तार्यते ॥ व्यञ्जनाममचित्तेन गौतमीतीरवासिना । श्रीव्यम्बकतनूजेन पण्डितानन्तशर्मणा ॥ रसिकस्मृतिभूषास्ति भुवि या रसमञ्जरी । व्यङ्गयार्थकौमुदी तस्यास्तन्यते तत्कुतूहलात् ॥ आदरादपि कुर्वन्तु दुर्जना न कथंचन । हेलयापि च सन्तोऽत्र दृष्टिं कुर्वन्तु मत्कृतौ ॥ किं मे प्रार्थनयाथवा यदि गुणः कश्चित् स्वसूक्तौ भवेद्विद्वन्दमिदं तदाहततरं तेनैव बद्धादरम् ।
For Private and Personal Use Only