________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8662
A DESCRIPTIVE CATALOGUE OF
Colophon: ___ इति श्रीविष्णुसूनोनिकस्य दशरूपके प्रथमः प्रकाशः ॥ End:
षटत्रिंशद्भूषणादीनि सामादीन्येकविंशतिः ।। लजा(क्ष्य)सन्ध्यन्तराख्याति(नि)सालङ्कारेषु तेषु च ॥ रम्यं जुगुप्सितमुदारमथापि नीचमुग्रं प्रसादि गहनं विकृतं च वस्तु । यद्वाप्यवस्तु कविभावकभाव्यमानं तन्नास्ति यन्न रसभावमुपैति लोके ॥ विष्णोः सुतेनापि धनञ्जयेन विद्वन्मनोरागनिबन्धहेतुः ।
आविष्कृतं मुञ्जमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमतत् ॥ Colophon:
इति श्रीदशरूपके नाटकरसाद्यलङ्कारे चतुर्थो भावादिप्रकाशः समाप्तः ॥
No. 12888. दशरूपकम् , सव्याख्यानम्.
DAŠA RŪPAKAM WITH COMMENTARY. Pages, 136. Lines, 7 on a page.
Begins on fol. la of the MS. described under No. 12858. Complete.
Same work as the above; and with the addition of a commentary thereon by Dhanika, son of Vişņu which commentary is called Dasarūpāvalūkana. Beginning:
इह सदाचारं प्रमाणयताविनेन प्रकरणपरिसमाप्त्यर्थ स्वाभीष्टाया देवतायाः प्रकृताभिमतयोश्च देवतयोनमस्कारः क्रियते कृतिना श्लोकद्वयेन-.
नमस्तस्मै गणेशाय यत्कण्ठः पुष्करायते । मदाभोगधनध्वानो नीलकण्ठस्य ताण्डवे ॥ दशरूपानुकारेण यस्य माद्यन्ति भावु(व)काः ।
नमः सर्वविदे तस्मै विष्णवे भरताय च ॥ इति ।। यस्य कण्ठ' पुष्करायते मृदङ्गवदाचरति । मदाभोगेन घनध्वानो (निबिडध्वनिः) नीलकण्ठस्य शिवस्य ताण्डवे उद्धतनृत्ते । ____तस्मै गणेशाय नमः । अत्र खण्डश्लेषाक्षिप्यमाणोपमा(च्छाया)लङ्कारः। नीलकण्ठस्य मयूरस्य ताण्डवे मेघध्वनिर्यथा पुष्करायत इति प्रतीतेः । दशरूपानुकारेणेत्येकत्र मत्स्यर्यादिप्रतिमारूपेण अपरत्र (अनुकृतिरूपेण नाटकादिना
For Private and Personal Use Only