SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THB SANSKRIT MANUSCRIPTS. 8789 आर्यावर्ताहये देशे स्थितो जनपदो महान् । मेरूत्तर इति ख्यातस्तस्य दक्षिणभागतः ॥ ग्रामो माठरपूज्याख्यो द्विजसाहस्रसम्मितः । तत्र लक्ष्मणनामासीत् विप्रः काश्यपवंशजः ॥ त्रिंशता क्रतुभिर्विष्णुं तोषयामास वेदवित् । वेदानां भाष्यमकरोत् नाम्ना यो वेदभूषणम् ॥ तस्य श्रीकृष्णनामासीत् पुत्रः कृष्ण इवापरः । वेदानधीत्य सकलान् शास्त्राण्यप्यखिलानि च ॥ पुत्रार्थ स महादेवं वाराणस्यामतोषयत् । तस्यासीत् भट्टगोपालो नाम्ना सूनुम्सुलोचनः ।। अष्टादशसु विद्यासु बहुशस्स कृतश्रमः । उपास्य शारदां देवीं पुत्रं लेभे गुणोत्तरम् ॥ तमाह्वयत्पिता प्रीतः शारदातनयाख्यया । अधीतवेदवेदाङ्गो वर्धमानः पितुर्गृहे ।। कदाचिच्छारदां देवीमुपासितुमुपाययौ । उपास्य स वसन् तस्याः चैत्रयात्रामहोत्सवे ॥ आसीनां नर्तनागारे तां देवीं प्रेक्षकैस्सह । प्रणम्य तैरनुज्ञातः तस्याः पार्श्वमुपाविशत् ॥ त्रिंशत्प्रकारभिन्नानि रूपकाणि पृथक् पृथक् । नटैः प्रयुज्यमानानि भावाभिनयकोविदः ।। दृष्ट्वा स देवीं वरदां नाट्यवेदमयाचत । नाट्यशालापतिः कश्चित् दिवाकर इति द्विजः ।। तयैव नाट्यवेदस्य नियुक्तोऽध्यापने तदा । प्रीतस्सोऽपि सदाशिवस्स्वशिवयोौर्या मतं वासुकेर्वाग्देव्या अपि नारदस्य च मुनेः कुम्भोद्भवव्यासयोः । शिष्याणां भरतस्य यानि च मतान्यध्याप्य तान्यञ्जसा सूनोरप्यथ नाट्यवेदमखिलं सम्यक्तथाध्यापयत् । शारदातनयो देव्यास्तान्यधीत्य च सन्निधौ । आदाय सारमेतेभ्यो हितार्थ नाट्यवेदिनाम् ॥ For Private and Personal Use Only
SR No.020207
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 22
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages204
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy