________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8709
नामिव यशः । भोजादेश्चित्तप्रभृतीनामिव वाञ्छितार्थसिद्धिाभः । वैदग्ध्यं तत्तत्प्रसङ्गोचितसर्वव्यवहारकौशलम् । अशिवक्षतिः मयूरादीनामिव महारोगादिनिवारणम् । आनन्दः विचित्रार्थरसभावचमत्कारः सर्वातिशायिसुग्वविशेषः । स्त्रीसंमिततया उपदेशश्च भवेत् ।। तस्य काव्यस्योत्पत्तिकारणमाह
स्वाभाविकी या प्रतिभा लोकशास्त्राद्यवेक्षणम् ।
तदेतदुभयं प्राहुः काव्यनिर्माणकारणम् ॥ स्वाभाविकी स्वतः सिद्धा ।
जयन्ति जलजासनप्रणयिनीकठोरस्तनद्वयद्वयसमाधुरीमधुमुचो वचोरीतयः । कलापरिषदुन्मिषत्कुमुदबन्धुनाडिंधमा विदग्धहृदयध्वनध्वनिचमत्कृती यत्कृतौ ।। वाणीनखमुखमुखरितवीणामाधुर्यधुर्यवाग्वृत्तिः ।
ध्वन्यध्वन्यध्वन्यः पेदकोमटिवेमभूपतिर्जयति ॥ Colophon:
इति वीरनारायणीये साहित्यचिन्तामणौ अलङ्कारशास्त्रे ध्वनिनिरूपणं नाम प्रथमः परिच्छेदः ॥
End:
आख्यायिकायां शृङ्गारादेमधुररसेप्वधिवर्णनया कथायां वीररसादिप्वपि न परुषवर्णादयः । एवमन्यदप्यौचित्यमनुस्मर्तव्यम् ।। Colophon:
इति वीरनारायणीये साहित्यचिन्तामणौ अलङ्कारशास्त्रे गुणविवेको नाम षष्ठः परिच्छेदः ॥ अथालङ्कारान् विवक्षुः तल्लक्षणमाह
प्रायः स्वतोऽङ्गद्वारेण ये रसस्योपकारकाः ।
तेऽलङ्काराः समाख्याताः कटकाद्या इवात्मनः ॥ यत्र वाच्यभेदेन भिन्ना अपि शब्दाः पृथक्प्रासनिरासाय तन्त्रेणोच्चार्यमाणाः परस्परं श्लिष्यन्ति.
*
For Private and Personal Use Only