________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8203
अश्मनां पाषाणानां वर्षात् शकलीकृतं खण्डितं बाहू च कर्णौ च नासौ(से)च बाहुकर्णनासं येषान्तैः योधैस्सह गेहं शिबिरं प्रत्यगात् गतवान् । औपच्छन्दसिकम् ॥ Colophon:
इति श्रीसदाशिवपदारविन्दवन्दनकन्दलितानन्दसान्द्रस्य कुरविकुलचन्द्रस्य रामकवीन्द्रस्य कृतौ चम्पुभारतव्याख्याने दशमस्तबकविवरणम् ॥
No. 12248. चम्पुभारतव्याख्या-सरस्वतीविलासः. CAMPUBHARATAVYAKHYA: SARASVATI VILĀSAW. Substance, palm-leaf. Siza, 143 x 1 inches. Pages, 144. Lines, 9 on a.
page, Character, Grantha. Condition, slightly injured. Appearance,
new.
Contains Stabakas one to three complete.
A commentary on the Campubhārata : by Narasimhācārya, son of Vēdāntācărya of Kausikagātra. The author salutes the image of Vişņu at Kumbakõņam. Beginning:
अस्ति(स्तु) श्रीनिगमान्तदेशिकगुरूत्तंसाय चन्द्रायते श्रीमत्कौशिकवंशदुग्धजलधेः स्वाभीष्टदेवात्मने । पित्रे श्रीनरसिंहनामविदुषा पुत्रेण सप्रश्रयं
दासेनाचरितं शरीरवचनस्वान्तैर्नमः पादयोः । किञ्च
उत्पाद्य स्वयमात्मजं तदनु यो जातक्रियाद्याः क्रियाः कृत्वा चाक्षरवाचने कुशलतामन्यादृशीं भूयसीम् । दत्वा चोपनयं विधाय विधिवत्स्वाध्यायमध्याप्य च स्वीयं मन्त्रगणं तदर्थसहितं तापादिना संस्कृतम् ॥ दत्वा धर्ममपि प्रकाश्य नितरां मन्वादिभिर्निश्चिता(तं) न्यासस्व(स्या)र्थमपि स्वरू(प)मपि च प्रोज्जीवकं जीवतः । तत्त्वं सम्यगथोपदिश्य सुदृढां वृत्तिं च भूरूपिणी कृत्वा चैव महागुरुत्वमगमत् ताताय तस्मै नमः ॥ सौवर्णकासारसुवर्णपद्मभूप(मा)प्रिया(य)स्यामृतनिर्झरायितः । कटाक्षभूमा मम कुम्भघोणप्रदीपभूतस्य ददातु वाञ्छितम् ॥
For Private and Personal Use Only