________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8192
A DESCRIPTIVE CATALOGUE OF
भाषादोषगवेषणाय धिषणा केषामपि प्रोन्मिषेस्केषाञ्चिद्विषमा समा च विदुषामाविर्भवेच्छेमुषी । तूष्णीं . . . . वः कतिचन प्रोद्भासयेयुस्सभां
श्लाघाकम्पनसम्पदस्स्वशिरसां सम्पादयेयुः परे ॥ वाणीविलासविलसद्वदनाम्बुजानां लक्ष्मीविशेषपरिरम्भलसत्तनूनाम् । सर्वज्ञता(तां)विभवलाभसमेधितानां को वारयेज्जगति वक्तृकवीश्वराणाम् ।।
(द्वावेतौ जि)झगौ लोके सर्पो दुर्जन इत्यपि । गुणं सुमनसां पूर्वः श्लाघतेऽन्यो निरस्यति ॥ वृत्तशब्दार्थवैचित्री यत्र विद्योतते कृतौ । त . . . . . . कारं मोदते न सतां मनः ॥ रसिकानां मुदे भूयात्सरसा मामिका कृतिः । मञ्जुला चञ्चरीकाणां यथा माकन्दमञ्ज(री |) अस्ति श्रियाध्यासितसर्वरथ्या चेञ्जीति मञ्जुर्नगरी जगत्याम् ।
यत्सौधभासामिव सङ्गमेन वियत्सवन्ती विशदा विभाति ।) . . . रेण नियतं निशि चन्द्रशालां शाला ममेयमिति सादरमेत्य चन्द्रः । केलीकलाध्ययनकोरकितश्रमाणां शर्माधिकं सृजति यच्छप(फरेक्षणानाम् ) ॥
या खलु निखिलदिङ्मुखविख्यातया शिलामुखरिङ्खणजनितखलखलात्कारमुखरया . . . . . . विरजयेव वैकुण्ठनगरी मन्दाकिन्येव पुर. न्दरपुरी कवेरकन्ययेव श्रीरङ्गराजधानी क्षीरतरङ्गिण्येव काञ्चीपुरी विद्योतते ।
तत्राविरासीत्ततकौतुकश्रीविलासकृष्णो विहृतिं चिकीर्षुः । कृतश्रियं कृष्णनृपं विधातुं खनाममाजं प्रथितस्वचिह्नम् ॥
Colophon:
इति विलासकृष्णप्रसादलब्धमधुरकवितावितीर्णकीर्तिस्फूर्तेर्लक्ष्मणकवेः कृतौ चम्पुकृष्णविलासे प्रथमस्स्तबकः ॥
श्रीकोपादतेलुङ्गार्यतनूभ(व)स्य रामानुजस्य तनयेन रमावरस्य । थीलक्ष्मणेन कविना जयतु प्रणीतः कृष्णानुजेन नवकृष्णविलास एषः ॥
For Private and Personal Use Only