SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8188 A DÉSORIPTIVE CATALOGUE OB एवमिष्टदेवाननिष्टनिवृत्तयेऽभिष्ट्रयेलामण्डलसकलपाण्डित्यहिण्डमानसरसपण्डितपुण्डरीकचण्डभानून्विद्वत्कवीन् सविनयमानमामि । यथा ॥ सकलकलाधरास्सरसमानससन्मतयः कृतिमुपशीलयन्तु गुणदोषविचारपराः । पयसि विमिश्रनीरमिव हंसवरा विबुधास्तदभिनुतिं करोमि यदि नो मयि मत्सरता ।। मूलं वल्मीकजन्मा मुनिरगणितवाग्व्यासमौनिः प्रकाण्डः शाखालिः कालिदासोऽप्यमरुकभवभूत्याहयौ बाणचोरौ । हर्षाद्या यस्य काव्यान्यपि कुसुमकुलं श्रीकवित्वद्रुमस्य श्रेयश्छायां श्रयामो यदिह सकलधमार्थकामाः फलानि ॥ नासौ वन्भ्यः प्रबन्धो न गलति न जरन् सप्तसन्तानपतयामन्वाशं चानुदेशं त्वनुनगरमनुग्राममन्वग्रजात(हार)म् । प्रत्युर्वीशं प्रयातः प्रतिवदनविधूद्यसुधाहारजीवी येनाखेदोऽस्त्वविघ्नः स्वपितुरमृतसन्तानसारातिलाभः ॥ जाता प्रौढकवेः स्वयंवरगुणश्रीनायकाश्लेषणश्रीमान्याकृतिकन्यका तदुभयोवेशप्रतिष्ठास्पदम् । . यां नेतुस्सुहृदां पितुश्च सुमनस्स्वामोदसन्तानभूजात्युच्चैः फलदायिनी निजगदुः स्वानन्दसन्धायिनीम् ॥ सरसामोदिकालिन्दीमुकुन्दमरविन्दवत् ।। जयतु श्रीप्रियपदं कविवागूमिवर्जितम् ।। अथ कथामुखम् अथ कदाचिन्नैमिशारण्ये पुण्यमृगविहगगणशरण्ये चारण्यकतपश्श्रीफलके शौनकादयो वनौकसस्तपस्यन्तस्सन्तः । अथ कदाचित् । सूतं समायान्तमिमे विलोक्यसम्पूज्य चाादिभिरहणीयम् । सम्पूर्णपौराणिकचित्रगाथारत्नाकरं चाच्युतचित्तरत्नम् । श्रीकृष्णचारित्रसुधासमुद्रे संस्नातुकामा वयमित्यवोचन् । त्रिपूरुषानन्दनपावनं तत्पादाम्बुजाम्बुप्रतिमं वदाशु ॥ तत्रापि कलिन्दकन्याकरपीडनं तत् कथं नु जातं कमलेक्षणस्य । कथामृतेनाद्य कुतूहलानि कुरुष्व पौराणिक कर्णयोनः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy