SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8176 A DESCRIPTIVE CATALOGUE OP पातिव्रत्यं ततः पश्चात् वेश्यामाहात्म्यमेव च । त्रयस्त्रिंशद्यमपुरं ततस्तुलसिसंभवः ।। दीर्घध्वज इति ख्यातं कार्तिकस्य शुभावहम् । वैशाखमाघमाहात्म्यं गयामाहात्म्यमेव च ॥ काशीमाहात्म्यकं चैव प्रयागाख्यमनन्तरम् । चिदम्बरं ततः पश्चात् सामुद्रिकमतः परम् ॥ श्वेतोपाख्यानकं चैव ततस्त्वेकादशीव्रतम् । रजस्वलाकथा चैव श्राद्धविस्तारमेव च ॥ द्रव्यशुद्धिस्ततः पश्चादाशौचं तदनन्तरम् । ततो वर्णाश्रमाचारो गृहधर्मास्ततः परम् ॥ पुराणश्रवणं चैव सर्वेषामनुकीर्तितम् । वन्ध्यानानं ततः पश्चात् धनार्जनमनन्तरम् ।। पुत्रगोपालकं नाम व्रतं पुत्रप्रदायकम् । गोपालप्रतिमादानमद्भुताश्च ततः परम् ।। दानप्रकरणं चैव व्यवहारस्ततः परम् । प्रायश्चित्तं ततः प्रोक्तं रोगाश्चैव ततः क्रमात् ॥ युगधर्मास्ततः पश्चात् प्रयत्नेन प्रकीर्तिताः । पितापुत्रस्य संवादो भृगोर्वारुणकं तथा ॥ ज्ञानोपदेशनं नाम तथा ब्रह्मोपदेशनम् । तत्त्वरोधस्ततः पश्चात् सन्यासस्तदनन्तरम् ॥ यतिधर्मास्तथा प्रोक्ता व्यासपूजा ततः परम् । योगमार्गस्ततः पश्चात् कथानां संहतिस्तथा ॥ एतासां श्रवणाहापि पठनाहा विशाम्पते । सर्वपापविनिर्मुक्तः स याति परमं पदम् ॥ वन्ध्या नियमपूर्वेण पूजयित्वाथ पुस्तकम् । आरभ्य नियमान्नित्यं कथा वा द्वयमेव वा ।। शुकं स्वर्णमयं कृत्वा पूजयित्वा दिने दिने । श्रुत्वा नियमपूर्वेण दिनान्ते दानमाचरेत् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy