SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8168 A DESCRIPTIVE CATALOGUE OF नवीनकालिदासस्य शिष्यो भूष्यतमस्सताम् । काव्यामृतरसाभिज्ञो नाम्ना रसिकशेखरः ॥ . सुबुद्धिनाने मित्राय पात्राय विविधाः कथाः । कथयामास यास्तासां सङ्ग्रहोऽयं विधीयते ॥ कविकुञ्जरनाम्नो मे प्रबन्धो रसबन्धुरः । सभारञ्जननामायं जयतु क्लेशभञ्जनः ॥ प्राक्तनान्येव सूक्तांनि ग्रथितान्यत्र यद्यपि । रत्नसङ्ग्राहकस्येव तथापि स्याद्यशो मम ।। अत्र खलु प्रशस्तमतिरंभिनवकालिदासस्य सुकवेरन्तेवासी चिरतरतदीय. सहवाससमुपचितरसिकतोत्सेकः श्रीमान् रसिकशेखरो नाम । तस्य खलु बालमित्रं सुबुद्धिर्नामान्वर्थनामा कदाचित् सुभाषिताश्रूषया स्वमित्रं रसिकशेखरमवादीत् । सुभाषितामृतास्वादसादरोऽस्मि चिरादहम् ।। परिपूरय कामं मे सखे रसिकशेखर ।। तदेतद्वयस्यवचनमाकर्ण्य रसिकशेखरः प्रत्यवादीत् । स्निग्ध सुबुद्धे यदि तव सुभाषितशुश्रूषा तर्हि . राजशेखरभूपस्य सभायां मधुरा गरः । नवीनकालिदासादिगदिताः श्रोतुमर्हसि || इदमाकर्ण्य सुबुद्धिरवादीत् । End: स्कन्धे कृषीवल हलं कलयन् क यासि । ? भाणव्यः-गच्छामि ते निकटमेव विभो । राजा—किमर्थम् ? हा हन्त कर्षणपरास्तव वैरिभूपा वृत्ति हरन्ति न इति त्वरयाभिधातुम् ॥ राजा-नितान्तसन्तुष्टस्तस्मै निजकर्णगते स्वकुण्डले प्रायच्छत् ।। Colophon: इति श्रीकविकुखरकृतौ राजशेखरचरित्रे सभारंजनप्रबन्धे प्रथमोल्लासः ।। राजशेखरचरितं सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy