SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8590 A DESCRIPTIVE CATALOGUE OF शिवः साक्षा(सूर्यः) स्थिरतरमहामोहतिमिरं निरस्य ज्ञानाब्जं सदयमयमुन्मीलयति यत् । अतो विद्वद्वन्दैर्गदितशिवसूर्याध्वरिवर प्रसिद्धिं वन्देऽहं गुरुमखिलविद्यापरिणतिम् ।। (नान्द्यन्ते) सूत्रधारः । अद्य खलु भगवतो देवदेवस्य निखिलामरकोटीरकोटिमणिकान्तिनीराजितपादपद्मस्य दन्तितन्तुवायवरसन्ततसन्तन्यमानसपर्याविशेषस्य अखिलाण्डेश्वरीकरकमलस्पर्शस्तम्भितामृतदेहस्य ज्ञानक्षेत्राधीशस्य श्रीजम्बुनाथस्य फाल्गुनोत्सवसेवासमागतान् सामाजिकान् केन वाभिनवेन रूपकेणानुरञ्जयामि । सू-(विचिन्त्य) अस्ति खलु सर्वलोकैकगुरोः वटमूलवासिनो देवदेवस्य मुखकमलमकरन्दायमानवीटीरसास्वाद . . . . . सेन निर्जितात् कविमल्लात् उल्लुण्ठितडिण्डिमचण्डरवनपुंसकोकृतपण्डितषण्ड . . . . सकलकलासार्वभौमस्य दौहित्रवंशमुक्तामणिः भृगुकुलमण्डनताखण्डितकवियशःपिण्डः लोकगुरुतया न्यवृतदेवगुरुः श्रीमान् शिवसूर्याध्वरिवरेण्यः । श्रीवत्सान्वयवारिधेरुदभवच्छ्रीमान् कलानां निधिः सन्मार्गकरतो द्विजावलिसमुल्लासैकतानोदयः । यः सर्वज्ञशिखामणिर्विशदयन् गोभिर्दिशां मण्डलं विख्यातः शिवसूर्ययज्वतिलको लोकेषु किं न श्रुतः || पारि--आम् २; यः किल भगवन्तं काश्चीपुराधीश्वरं कामाक्षीदयितमुपलोकितवान् मूले माकन्दतरोः शैलेन्द्रसुतातपःफलं जयति । यत्परिणामपरीक्षणतत्परगौरीस्तनाङ्कितं ममम् ॥ इति ॥ उपश्लोकितश्च सरसकविताभिमानिना वीरराघवमखिना प्रत्यूषस्फुटदम्बुजन्मविगलन्माध्वीकराद्धान्तिनी यः पीयूषझलझलीसहचरी प्रासोष्ट वाग्वैखरीम् । तस्मै विस्मयनीयसद्गुणमणिस्तोमैकधामात्मने पष्णीमः शिवसूर्ययज्वधरणीदेवाय सेवाञ्जलीन् ॥ इति ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy