SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8540 A DESCRIPTIVE CATALOGUE OF यथा किल--- “ आसील्लिङ्गमगुण्टपट्टणवरे श्रीरामनामा कविनप्ता पेद्दनधीमतो गुणनिधेः पौत्रो हनूमत्सतः । पुत्रः काश्यपगोत्रिणः स्थिरमतेः श्रीरामकृष्णस्य सद्वाक्याबद्ध कवित्वपद्धतिचणः श्रीवेङ्कटार्यानुजः ॥ स कविबभाण भाणं शृङ्गाररसोदयाख्यमन्वर्थम् । भाषात्रयभूषितमतिगुणतोषितमवशेषितोक्तिभिः सहितम् ।। स भाणः साधुप्रयोगः पण्डितजनहृदयानन्दकारी” इति ॥ अहमपि तेन रसिकजनसमुल्लासकरणमहिना शृङ्गाररसोदयनाम्ना मिश्र भाणेन नवरसविस्तारानिमान् सभास्तारानभिनन्दयामि । ___ भो भोः सभास्ताराः सावधानमवधार्यतामिति लिखितपत्रिका वाचयति---- स्वस्ति श्रीजयाभ्युदयभावनामसंवत्सरे वैशाखबहुलपक्षद्वितीयायां शुभमुहूर्ते पद्मगन्धिनी सरसशेखरस्य कलत्रपदमनुभवत्विति मदनवसन्तजैवातृकान् साक्षीकृत्य कुक्कुटोपाध्यायेन लिखितपत्रिकायामनुलिखितं रामलक्ष्मणाभ्यामङ्गीकृतं भरतशत्रघ्नाभ्यामूरीकृतं मारुतसुतेन प्रियमिति भाषितं सामाजिकैः । End: स्योना पृथ्वी भवतु धनिभिर्बाह्मणा यायजूकाः कानीनामा भुवि नृपतयः संहति(तौ) याचकानाम । काले वृष्टिं सृजतु वरुणो भद्रमेवास्तु गोभ्यो देशे देशे सकविजनता प्राप्नुयाच्च प्रतिष्ठाम् ॥ Colophon: इति श्रीराजशेखरयतीश्वरप्रसादासादितसाहित्येन श्रीविनेश्वरचरणारविन्दवन्दनप्राप्ताष्टभाषाकवित्ववैभवधुरन्धरेण हनुमत्पण्डितपौत्रेण रामकृष्ण . . . ल्लिङ्गमगुण्टरामसकविशेखरेण विरचितः शृङ्गाररसोदयो नाम मिश्रभाणः समाप्तः ॥ ___No. 12708. शृङ्गारराजतिलकभाणः. ŚRNGÁRARĀJATILAKABHĀŅAH. Pages, 30. Lines, 21 on a page. 1. Begins on fol. 110a of the Ms. described under No.2580. Complete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy