________________
Shri Mahavir Jain Aradhana Kendra
8486
A DESCRIPTIVE CATALOGUE OF
www.kobatirth.org
Complete in two acts.
A drama by Vyasa-Ramadēva describing the glorious events that occurred in the life of Rama after his coronation. The author is said to have been in the court of King Mera, son of Ramadeva. Dated: Samvat 1907, Kārtika, dark fortnight, 1st. Beginning :
विश्वोल्लासि निशाविसारि तिमिरं दूरं निरस्यादरादारादेव हुताशनाधिगतया कान्त्या स्फुरन्त्या युतः । उन्मीलत्कमलावलीपरिमलव्यालोलभृङ्गाङ्गनागीतस्फीतयशः प्रशस्तिरुदयं तन्वन् रविः पातु वः ॥ (नान्द्यन्ते)
सूत्रधारः - (समन्तादवलोक्य, सहर्षम् )
*
सूत्र - आर्ये विदितमेव तावद्भवत्या । अस्ति ध्वस्तसमस्तवैरिविपिन प्रोद्यत्प्रतापानल ज्वालालीविमलीकृतत्रिभुवनः श्रीरामदेवात्मजः । आयुष्मानवनीवनीपकमनस्सङ्कल्पकल्पद्रुमो मेरुः स्मेरयशः प्रसून पटलप्रोल्लासितोतलः ॥ अपि च
*
Acharya Shri Kailassagarsuri Gyanmandir
姊
रणक्षोणीरङ्गप्रसृमरविपक्षक्षितिभुजां भुजादण्डोदश्च त्तरसमरकण्डूभरहरः । शरद्राकाराकारमणकिरणालीशुचिलसद्यशश्रीः श्रीमेरुः कथमिव हि वर्ण्यः [कविजनैः ॥
तेन च प्रबलरिपुकु (ल) जलधिसंशोषणागस्त्येन विविधवीरचूडामणिना महाकारुणिक श्रीमेरुदेवेन समादिष्टोऽस्मि यथा " सरसकविना व्यास श्रीरामदेवेन विरचितगभिनवं रामाभ्युदयं नाम छायानाटकमभिनीयमानं निरूपयितुमिच्छामः ।
तन्मन्ये ममापि फलितमद्य सङ्कल्पकल्पपादपेन । यतः—
श्रीरामस्य चरित्रमद्भुतमिदं सभ्या गुणग्राहिणः शैलूषाश्र चतुर्विधेऽप्यभिनये वैदग्ध्यमाविश्रति । सारस्यं कलयन्ति रामसुकवेर्वाचः सुधासोदराः श्रीमानेष सभापतिर्विजयते मेरुर्वदान्याग्रणीः ||
End:
वसिष्ठः -- (रामं प्रति) वत्स ! किं ते भूयः प्रियमुपकरोमि ?
For Private and Personal Use Only