SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSORIPTS. 8443 आलोकैरनुषज्यमानकरुणैराहादयन् वै परामास्तेः यः सततानुभूतविभवो देवो मुदे वोऽस्तु सः ।। स जयति सकलसुरासुरमणिमकुटाराध्यशासनो वीरः । यस्येषुपातभीतो वामाङ्गे वहति कामिनीमीशः ।।। (नान्द्यन्ते सूत्रधारः) सूत्रधारः--(पुरतोऽवलोक्य) अये पारिपार्श्विक किमद्यापि विलम्बसि ? पारिपार्श्विकः--(सभयं) अयमहमागत एवास्मि । सूत्र--ननु भोः सकलनिगमागमप्रतिपाद्यमानमहाप्रभावस्य बालव्याघ्रपुरीकलितनिवासस्य भगवतो विश्वेश्वरस्य कल्याणमहोत्सवदिदृक्षासमागताङ्गवङ्गकलिङ्गकाश्मीरकोसलकोङ्कणलाटमराटादिविविधजनपदरसिकजनसमाजसन्दर्शजनितकुतूहलेन तदाज्ञप्तं मदनमहोत्सवं नाम रूपकमभिनवमभिनेतुमारभमाणेन मया त्वमिदानीमेव तत्तद्भूमिकानिवे(ह)णधुरीणकुशलकुशीलवकुलसंमेलनाय प्रतिबोधितोऽपि शृणु भोस्साधो । यः खलु प्रथमात्रेयगोत्रसागरचन्द्रमाः । शामयार्यतनूजातिः श्रीकण्ठपदसंज्ञितः ॥ मारि--(सानुस्मरणं) यं खलु आबाल्यसंसेवितदेशिकाभिमाहादिताशेषजनान्तरङ्गम् । आलिप्तविद्वजनपादरेणुं नझुण्डसंज्ञं कवयो वदन्ति । सू(पारि)-(सश्लाघ) अथ किं, तत्तादृशविनयविधेयमानसस्य कवेः गुरुपरम्परां श्रोतुकामोऽस्मि । सू-(सकौतुकं) श्रूयतां तावत् सर्वज्ञस्समदर्शनः पृथुयशास्सङ्ख्यावतामग्रणीः स्वाचारः करुणानिधिश्शिवपदाम्भोजातसेवारतिः । यद्रूपेण पुमाकृतिर्भगवती जाता त्रयी भूतले सोऽयं श्रीपरमेश्वराध्वरिवरो यस्यादिमो देशिकः ॥ सोऽयं किल-- एधितकरुणासिन्धोरीशशिरश्श्लाघ्यसत्कलाबन्धोः ।। रामस्वामिमखीन्दोरधिगतवाग्वैभवो महान् यज्वा ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy