SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 8430 www.kobatirth.org A DESCRIPTIVE CATALOGUE OF तर्कादिप्रौढतन्त्रप्रविततगहन प्रक्रियादुर्गमार्गस्फारस्वैरप्रचारप्रबलमृगपतिर्भूरिसग्रन्थबन्धा । काव्यालङ्कारजालप्रचुरपरिचयो यः सुधासिन्धुपूरप्रेङ्खत्कल्लोलजालप्रतिभटकवितामाधुरी साधुरीतिः ॥ सोऽयं तमस्संवृतसत्यवस्तुसाक्षाच्चसन्दा यिनमातनोतु । प्रबोधचन्द्रोदयमूलमेतं प्रौढप्रकाशं प्रचुरप्रचारम् || यद्यप्येतन्मूलं प्राचीनैर्वा कृतं तदप्यस्मिन् । गूढा बहवो भावा नैवानुभवन्त्यभिव्यक्तिम् ॥ ननु कः पुनः प्रबोधचन्द्रोदयेनार्थः, भाष्यगा (भा)मत्यादिभिर्बहुभिर्ब्रन्थैः गतार्थत्वात् । नच सङ्ग्रहार्थत्वेन सार्थकत्वमिति वाच्यम् ; सङ्ग्रहग्रन्थानां च भूयसामुपलम्भात् इति चेदुच्यते नाटके तावत् प्रतिपाद्यमानः सर्वोऽप्यर्थः अभिनयप्रधानः । तथा च वेदान्तार्थस्य प्रबोधचन्द्रोदये यावान् प्राकट्यातिशयो न तावान् परोक्षोपदेशपर्यवसायिषु भाप्यादिग्रन्थेषु । ब्रह्मज्ञानसाधनानि वस्तुविचारादीनि निदिध्यासनान्तानि बहूनि प्रत्येकं चिरकालानुष्ठेयानि शास्त्रेणोपलभ्यन्ते । * Acharya Shri Kailassagarsuri Gyanmandir अथ तत्रभवान् समस्तवेदान्तार्थसङ्ग्राहकं प्रबोधचन्द्रोदयं नाम नाटकं जगदुपकारार्थमारिसुस्तदादौ नाट्यस्य निर्विघ्नपरिसमाप्तये कुशीलवैः सूत्रधारेण वा कर्तव्यस्य पूर्वरङ्गस्य मुख्याङ्गभूतां नान्दीमारचयति - मध्याह्नेति । श्रीकृष्णेनेवेति श्लेषमहिम्ना पूर्वमयमेव कृष्णरूपेण स्थित इति गम्यते । तथा च नरसिंहाद्यवतारकारिनारायणांशसम्भूतो महात्मा गोपालमन्त्रिवर्यः श्रीकृष्णमिश्रकृतौ प्रबोधचन्द्रोदये तत्प्रयोक्तरि भरतविशेषे च कुतूहलमाच त्तेति कविकाव्यनटादीनां प्राशस्त्यप्रतीतेः । Colophon : इति श्रीवेङ्कटाम्बागर्भसम्भूत श्री सुब्रह्मण्यसुधीवर विरचिते प्रबोधचन्द्रोदयव्याख्याने प्रौढप्रकाशे प्रस्तावनाविवरणम् । End: पूर्णमित्यादिश्लोकद्वये शुभशंसनरूपा प्रशस्तिरिति ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy