SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8423 तस्यैतस्य तनूभवः कविरयं त्रय्यञ्चलव्याक्रियातर्कप्रौढचमक्रियासु निपुणो मीमांसकोत्तंसकः । तत्ताहक्कवितासरोजसविता दत्ताशयः श्रीपतेः शेषक्ष्माधरवासिनश्चरणयोः श्रीवेङ्कटायर्याध्वरी ॥ तेन किल निबद्धं प्रद्युम्नानन्दाभिधानमभिनवं नाटकमभिनयद्भिरस्माभिरानन्दयितव्या परिषदेषा । नटी-हृदयंगमोऽयं परिषदभितोषणोपायः । सारग्राही खल्वसि । तथाहि कल्पन्ते विदुषां मुदे स्मरवधूकर्णावतंसोत्पलस्वैरोदश्चितसीधुपूरसुहृदः श्रीवेङ्कटार्योक्तयः । श्रोत्रैर्याः सुचिरं निपीय दधते शृङ्गारपारं गताः श्रीमत्तिर्मलरायपण्डितमुखाः श्लाघाविलोलं शिरः ।। End: अपि च, तुण्डीरादिषु मण्डलेषु किल मा भूदेव भूदेवताद्रोहिभ्यः कलिकृतरुष्कयवनादिभ्यो रिपुभ्यो भयम् । विज्ञानं निगमान्तजन्यमिह मा विप्लावि चाल्पश्रुतैः शेषाद्रेः शिखरे चिरेण रमया चक्री स च क्रीडतु ॥ Colophon: ___ इति श्रीवाजपेयसर्वष्टष्ठाप्तोर्यामादियाज्यात्रेयवंशमौक्तिकीभवदप्पयाचार्यतनूभवस्य श्लेषयमकचक्रवर्तिनो रघुनाथाचार्ययज्वनस्तनथेन श्रीनिवासकृपातिशयसुविदितनयेन काञ्चीनगरवास्तव्येन सीताम्बागर्भसंभवेन वेङ्कटाचार्ययज्वना विरचिते प्रद्युम्नानन्दनानि नाटके षष्ठोऽङ्कः ।। नवसन्दर्भमात्रेयो नाटकं वेङ्कटाध्वरी । प्रजोत्पत्तौ प्रौष्ठपद्यां पूर्णिमायामपूरयत् ॥ The scribe adds श्रीमल्लक्ष्मणयोगिपुङ्गवमताकूपारराकाविधोरुर्वीमण्डलमण्डनस्य करुणाम्भोधेः पदाम्भोरुहम् । ध्यात्वा योऽण्णयदेशिकस्य सततं हर्षाम्बुधौ मजनं कुर्वस्तिष्ठति राघवेण लिखितं तेन प्रियं नाटकम् ॥ श्रीमदण्णयसूरीन्द्रं श्रितवात्सल्यभूषितम् । . कलये मम सर्वस्वं करुणावरुणालयम् ॥ 629 For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy