SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8412 A DESCRIPTIVE CATALOGUE OF बभार यो महारत्नभारतीभारतीभृताम् । स सुप्रसिद्धरावे(नामे)ह बुधो लक्ष्मीधराभिधः ॥ तथा हि। स एवागान्मीमांसकतिलकसीमां स कवितासुधायाः प्रत्यग्रं व्यधित वसुधायामवतरम् । नवीनां सद्भावस्थितिमहिगवीनां स विदधे प्रभावं दधेऽसौ गिरमधिशतानन्दसवितुः ॥ इदानीं च, वाग्देवताहृदयभूषणपारिजातस्रग्गुम्भनानुगुणगीतगुणस्य तस्य । संभावनाभिरुपबिभ्रदशून्यमन्तर्विश्वेश्वरेति विदितस्तनयस्तदीयः ।। तदनुबद्धया नवमालिकाभिधानया नाटिकया चाभिनीयमानया त्वया वयं विनोदनीया इति । तत्तदनुरूपमारभ्यताम् । नटः-अयि मुग्धे नात्र किञ्चिद्विचारयितव्यमस्ति । वैदुष्ये परिनिष्ठितः प्रतिपदामग्रेसरो यद्गुरुः तत्तच्छास्त्रकृतश्रमा अपि बुधा यत्पक्षपातस्पृशः । विद्याभ्यासरतानुरत्तिविदिते यस्य प्रसूतिः कुले भारद्वाजमुनेः कुतूहलकरं किं तस्य न स्याहचः ।। देवादेशात् ककुभमभितो दक्षिणां जेतुकामो वृक्षाणां न क्षणमपि नलक्षोणिदेशानविक्षम् । श्रीरामेणोषितमिह चिरायेति मत्वा परं तु प्रागेवाहं परिकलयितुं दण्डकारण्यमैच्छम् ॥ End : तथापीदमस्तु (भरतवाक्यम् )-- धर्म श्रुत्युदितं द्विजप्रभृतयो वर्णा भजन्तां निजं भूपा उद्विजमानतां विजहतु त्यक्तोपतापाः प्रजाः । सौहित्यं हविषा वहन् हरिहयो यच्छत्वभीष्टं पयो जीयासुः पुरुषायुषं सहृदया विद्यासु लब्धोदयाः ॥ नीतिनिधिः--एवमस्तु । इति निष्क्रान्ताः सर्वे ॥ Colophon: चतुर्थोऽकः ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy