________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8406
A DESCRIPTIVE CATALOGUE OP
in chapters 171 to 173 of the Adiparvan of the Mahabharata. His other works are Vyangyavyākhyā and Ascaryamañjarīkathā. This work has been printed and published in the Trivandruin Sanskrit Series. Beginning:
(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सू-लक्ष्मीर्घर्मजलच्छलेन सुधया दन्तच्छदच्छद्मना
सोदर्येण च कौस्तुभेन शकलेनेन्दोर्ललाटात्मना । पाणिस्पर्शविधावमीभिरुचितैनीतेव दातुं विभो
रालम्ब्याङ्गमधोक्षजस्य भवतां कामप्रसूः कल्पताम् ॥ अलं प्रविस्तरेण । अधुनातनमभ्युदयप्रमोदातिभारमात्म कुटुम्बिन्यै संविभजामि । (परिक्रम्य नेपथ्याभिमुखमवलोक्य)
आर्ये, मा मैवम् । यस्य परमहंसपादपङ्केरुहपांसुपटलपवित्रीकृतमकुटतटस्य वसुधाविबुधधनायान्धकारमिहिरायमाणकरकमलस्य मुखकमलादगलदाश्चर्यमञ्जरीकथामधुद्रवः ।
अपि च, उत्तुङ्गघोणमुरुकन्धरमुन्नतांसमंसावलम्बिमणिकर्णिककर्णपाशम् ।
आजानुलम्बिभुजमश्चितकाश्चनाभमायामि यस्य वपुरार्तिहरं प्रजानाम् ॥ तस्य राज्ञः केरलचूडामणेर्महोदयपुरपरमेश्वरस्य श्रीकुलशेखरवर्मणः कृतिरियमधुना प्रयोगविषयमवतरति ।
तनयसमुद्भवहेतोरमुतो नियमान्निवर्तितासि मया ।। संवरणेन यथेयं साल्वसुता सार्वभौमेन ||
(निष्क्रान्ती) स्थापना । तथाप्येतावदाशंसामहे (भरतवाक्यम् )....
अन्योन्यं जगतामपाकविरसा मूर्च्छन्तु मैत्रीरसाः संगृह्णन्तु गुणान् कवेः कृतधियां मात्सर्यवन्ध्या धियः ।। विश्लिष्यद्विषयानुषङ्गकलुषीभावा घनश्यामले भक्तिर्मे परिपच्यतामहरहः श्रेयस्करी श्रीधरे ॥
(हति निष्क्रान्ताः सर्वे)।। Colophon:
इति षष्ठोऽङ्कः ।। इति तपतीसंवरणं नाम नाटकं समाप्तम् ॥
End:
For Private and Personal Use Only