SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8404 A DESCRIPTIVE CATALOGUE OF Beginning: यस्यानङ्गरणोत्सवो न घटते जाग्रत्यपि प्रेमणि क्रोधे कन्दलितेऽपि यस्य विमुखीभावो न संभाव्यते । तस्याश्चर्यगुणाकरस्य महसो वामस्य वान्यस्य वा पादाब्जस्य पराः परागकणिकाः पायासुरायासतः ।। अन्यस्त्री नापि दृष्टेत्यहिघटपणहत्तद्धरत्वानिषिद्धे तत्संगे साक्षिसिद्धे सुतनु कुचगिरेः पातयागःस्पृशं माम् । यहा वेणीकशाभिः प्रहर दलय वा दृक्शरैमज्जयाहो नाभीकूपे चिरायेत्यभिदधदुमया क्रीडितोऽव्यान्मृडो नः ॥ (नान्द्यन्ते निर्वाहकः परिक्रम्य)(पाण्डरपटविहितनेपथ्याभिमुखमवलोक्य)-मारिष, इतस्तावत् । सू-(स्मृतिमभिनीय) अस्ति डमरुकं नाम । पारिपार्श्विकः-- (सवैलक्ष्यम् ) न श्रुतं न श्रूयते न श्रोष्यते च डमरुकमिति । सू-- नूनमेवमेव । परं त्विदमद्भुतम् । पारि-भाव, किं तदद्भुतम् । सू-यत् किल स्वप्ने पञ्चषान्वारान् परमेश्वरेण डमरुकं ग्रन्थयेति नियुक्तः कश्चन कविः । पारि-(स्वगतम् ) स किल कृतार्थः (प्रकाशम् ) आर्य, को नाम स कविः । सू-~यस्येशोऽग्रभवः पिता किल महादेवः स काशी प्रसूः साधुः श्रेयसि सुन्दरी प्रियतमा शाकंभरी च स्वसा । सप्ताष्टोक्तिलिपिप्रभुर्गुणनिधि(श्री)ण्डाजिबालाजिनः पौत्रो यो द्वयवादिपङ्कमिहिरो द्वाविंशवर्षान्वितः ॥ पटुषड्भाषाकाव्यं नाटकमाणौ च सट्टकं चम्पुः । अन्यापदेशशतकं प्रहसनमपि येन लीलया ग्रथितम् ॥ अपि च, सरस्वती घनश्यामो घनश्यामः सरस्वती । इत्येव यं प्रति प्रायः किंवदन्ती प्रवर्तते ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy