SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3886 A DESCRIPTIVE CATALOGUE OF तत्रभवान् भवभूति म कविकण्ठीरव एकः शब्दः सम्यग्ज्ञातः सुष्ठु [ज्ञात] प्रयुक्तः स्वर्गे लोके कामधुक् भवतीत्यादिश्रुत्या परिनिष्ठितशब्दप्रयोगस्य धर्मत्वमवगच्छन् “काव्यं यशसेऽर्थकृते-" इत्यादिना काव्यरूपस्य तस्य प्रकर्ष विभाव्य “शैवा वयं न खलु तत्र विचारणीयं पञ्चाक्षरीजपपरा नितरां तथापि । चेतो मदीयमतसीकुसुमावभासं स्मेराननं स्मरति गोपवधूकिशोरम् !” इत्यादिन्यायेनाङ्कुरितभगवद्भक्तिकतया " स वाग्विस! जनताघविप्लवो यस्मिन्प्रतिश्लोकमबद्धवत्यपि । नामान्यनन्तस्य यशोऽङ्कितानि शृण्वन्ति गायन्ति गृणन्ति सन्तः ।।" इत्यादिन्यायेन, "प्रबन्धानां प्रबन्धृणामपि कीर्तिप्रतिष्ठयोः । मूलं विषयभूतस्य नेतुर्गुणनिरूपणम् ॥” इत्यादिन्यायेन च भगवद्गुणान्विवक्षुः, तत्रापि “ यदि क्षुण्णं पूर्वैरिस्थिमिति जहति रामस्य चरितम् " इत्यादिन्यायेन रामकथां प्रतिपिपादयिषुईश्यस्य श्राव्यापेक्षया “देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषम्" इत्युक्तनाट्याश्रयत्वप्रयुक्तप्राधान्यात् प्रकरणादीनां यथायथं रसवस्तुनायकापकर्षात्तत्प्रकर्षवन्नाटकां(क)चिकीर्षः पूर्वचरितस्य महावीरचरितेन वर्णितत्वात् उत्तरं वर्णयितुमभिसन्धाय पूर्वरङ्गप्रधानाङ्गभूतां नान्दीमाह-इदं कविभ्य इति । पदद्वयमिदम् । अतो द्वादशपदत्वसिद्ध्या न नान्दीपदनियमभङ्गः । इदमिति चे(चो)द्देश्यसमर्पकं द्वितीयान्तं विशेष्यवाचकम् ; नमोवाकमिति च विधेयसमर्पकं विशेषणवाचकं च । तथा च इदं प्रारिप्सितग्रन्थादौ चिकीर्षितत्वेन बुद्धिस्थं मङ्गलं पूर्वेभ्यः कविभ्यो नमोवाकं प्रशास्महे । पूर्वकालप्रसिद्धप्राचेतसादिकविविषयकनमउक्तिं निर्दिशाम इच्छाम इति वा । " प्रशासनं तु निर्देशः” इति कोशः । आङश्शासु इच्छायामिति धातोरापर्वकत्वं प्रायिकमित्युक्तेः प्रपूर्वकत्वेन इच्छार्थकत्वं च । " नमउक्तिर्नमोवाकः” इति कोशः । वर्भावे घञ् कुत्वम् । एतन्मङ्गलोद्देश्यकपूर्वकविविषयकनमउक्तित्वविधेयकबोधजनकशब्दप्रयोगवानहम् । एतन्मङ्गलोद्देश्यकपूर्वकविविषयकनमोवाकत्वविधेयकेच्छावानहामिति वा बोधः ॥ End: शब्दब्रह्मविदो बुधा अभिनयैस्सह विन्यस्तरूपां प्राज्ञस्य कवेरिमां वाणी परिणतां तामेनां परिभावयन्त्विति योजना। एतेन एनामिमामित्यनयोर्न पौनरुक्त्य म् । अभेदसम्ब . . . . . . . . . . . . त्वादुमयोर्द्वितीयान्तत्वम् । एवं सा . . . ना कं वृत्तम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy