________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
8861
No. 12461. अनर्घराघवव्याख्या-पञ्जिका. ANARGHARĀGHAVAVYĀKHYĀ: PAÑJIKĀ. Sabstance, paper. Size, 9 x 74 inches. Pages, 380. Lines, 22 on a
page. Character, Grantha. Condition, good. Appearance, new. Bound in four volumes. Complete.
A commentary on the Anargharāghava : by Vişnubhatta, son of Muktinatha. It is designated Paijika. Beginning:
यं ध्यात्वा वरदं धीरा व्यापारे विघ्ननाशनम् । दुष्करेऽपि प्रवर्तन्ते तं वन्दे द्विरदाननम् ॥ अनर्घराघवाख्यस्य नाटकस्य यथामति । करोमि पञ्जिका विष्णुर्मुक्तिनाथार्यनन्दनः ॥ मया मन्देन रचिता पञ्जिकेयं मनीषिभिः ।
उक्तानुक्तदुरुक्तः प्रयत्नेन विशोध्यताम् ॥ नाटकत्वं चास्य ख्यातेतिवृत्ततया धीरोदात्तमानुषनायकत्वेन वीररसप्राधान्यात् सन्धिपञ्चकतदङ्गसन्ध्यन्तराख्योपाङ्गभूषणपताकास्थानकविष्कम्भादियुक्तत्वात् । तदुक्तम्,
अर्थप्रकृत्यवस्थात्मसन्धिसन्ध्यङ्गवृत्तिमत् । अर्थोपक्षेपणैर्युक्तं पताकास्थानकादिभिः ॥
सन्ध्यन्तराजभूषावन्नाटकं तदुदाहृतम् ॥ इति ।
द्वादशपदविंशतिपदश्लोकद्वयात्मिकां सकलमङ्गलावहां नान्दीमाह-निष्प्रत्यूहमिति । तदुक्तम्,
अर्थस्य प्रतिपाद्यस्य तीर्थ प्रस्तावनोच्यते ।
प्रस्तावनायास्तु मुखे नान्दी कार्या शुभावहा ॥ End : काव्येनैव हि यशःस्थैर्य भवतीति काव्यस्य रसायनत्वम् । तदुक्तम् ,
आदिराजयशोबिम्बमादर्श प्राप्य वामयम् । तेषामसन्निधानेऽपि न स्वयं पश्य नश्यति ॥ 826-A
For Private and Personal Use Only