SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8349 पुरस्तादास्तां मे पटुकवनवेणीकुतुर्किनः पदानां सन्दर्भ परममुपदेष्ट्री भगवती ॥" एवमादिसमभ्यर्थनानन्दितसरस्वतीनिरवग्रहानु(य)हसभुदयसमासादितनिरवघगद्यपद्यमयसाहित्यविद्या(वैशद्यः) । एवंच, प्राचां वाचः परिमलमुचः प्रायशस्ताः समस्ताः पायम्पायं प्रणयमधुरं प्राप्तसारस्वतो यः । यद्वैदुष्यं सहृदयशिरश्श्लाघनीयं परेषां मर्मोद्भेदस्फुटपटुतरं माननीयैर्गुणौधैः ॥ किं बहुना? चकास्ति घटिकाशतप्रथितगद्यपद्योभयप्रबन्धविनिबन्धनः स शिवरामकृष्णः कविः । प्रचण्डतरताण्डवत्रिपुरहन्तृमौलिस्फुर त्सरिल्लहरिसोदरी विजयते हि तत्साहिती ॥ (सविनयादरम् )--- गिरां गुम्भः प्राचां गलदमृतनिष्यन्दलहरीविलासानां जेता जयति बहुधा यद्यपि परम् । तथाप्येतत्सूक्तिः कविकुलशिरश्श्लाघनपदं भवत्युद्यद्वर्णक्रमपदरसालङ्कतिगुणैः ।। सम्प्रति हि, निरवधिगुरुकटाक्षपरम्पराधिगतमधुरकवितामृतसारसन्ततास्वादनिर्वतितका. लक्षेपेण विनयमहाधननिक्षेपेण तेन कविना प्रणीतः कश्चिदाधुनिको ग्रन्थः परमस्मानुपसेवते ॥ (कर्ण दत्वा) किं ब्रूथ ? । " स हि किंनामानं कीदृशरसानुबन्धबन्धुरं प्रबन्धमनुसन्धाय दत्तवान् !" इति ? स कविः किल-- सुकुमारार्थसन्दर्भ सूचितव्यङ्गयवैभवम् । अनङ्गविजयं भाणमातनिष्ट मनोहरम् ॥ For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy