SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8316 A DESCRIPTIVE CATALOGUE OF Beginning: (या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता सा मां पातु सरस्वती भगवती निश्शेषजाड्यपहा ॥) आसीदशेषनरपतिशिरस्समभ्यर्चितशासनः पाकशासन इवापरः चतुरुदधिः वेलामेखलाया भुवो भर्ता प्रतापानुरागावनतसमस्तसामन्तचक्रश्चक्रवर्तिलक्षणोपेतः चक्रधर इव करकमलोपलक्ष्यमाणशङ्खचक्रलाञ्छनः हर इव जितमन्मथः गुह इवाप्रतिहतशक्तिः धौरेयस्साहसिकानामग्रणीविदग्धानां वैनतेय इव विनतानन्दजननो वैन्य इव चापकोटिसमुत्सारितारातिकुलाचलो राजा शूद्रको नाम बभूव । . यस्य च राज्ञः परलोकाद्भयमन्तःपुरिकालकेषु भङ्गो नूपुरे पवित्रयन्त्या वेत्रवत्या सरिता परिगता विदिशा नाम नगरी राजधान्यासीत् । End: स्वयमागच्छामीति स्त्रीचापलमनु(नन्य)रक्तोऽयं (परि)जन इति स्वयं भक्तिनिवेदनालापलाघवं प्रत्याख्यानशङ्कया न सन्दिशामीति अप्रबुद्धबोधनमनपेक्षितानुजीविदुःखदारुणा स्यामिति अतिप्रणयिता ज्ञास्यसि मरणेन प्रीतिमित्यसंभाव्यमेव ॥ Beginning of the Uttarabhāga ; (सारस्वताब्धिः किं चित्रमत्र बाणमुखं गतः । रामबाणमुखं पूर्व गत एव पयोनिधिः ॥) देहद्वयार्धघटनारचितं शरीरमेकं ययोरनुप(ल)क्षितसन्धिबन्धम् । वन्दे सुदुर्घटकथापरिशेषसिधै सृष्टेर्गुरू गिरिसुतापरमेश्वरौ ता ।। गङ्गां प्रविश्य भुवि तन्मयतामुपेताः स्फीतास्समुद्रमितरा अपि वीक्ष्य यान्ति । आसिन्धुगामिनि पितुर्वचसा प्रवाहे क्षिप्त। कथानुघटनाय मयापि वाणी ॥ कादम्बरीरसभरेण समस्त एव मत्तो न किश्चिदपि चेतयते जनोऽयम्। भीतोऽस्मि यन्न रसवर्णविवर्जितेन तच्छेषमात्मवचसाप्यनुसन्दधानः ॥ अपिचेदानीमानीतस्यापि कुमारस्य न ददाति तर(ल)तालज्जिता लजैव दर्शनम् । मनोभवविकारवेदनाविलक्षं वैलक्ष्यमेव न पुन(र)स्तिष्ठति । अप्रतिपत्तिसाध्वसजडा मि(ज)डतैव नोपसर्पति । स्वयमङ्गीकरणलघुलाघवेमव तत्प्रतिपत्तिस्थैर्य नावलम्बते । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy