SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8308 A DESORIPTIVE CATALOGUE OF किश्च वैयानीं त्वचमाकलग्य चकिते वैनीतके त्वङ्गति . व्यत्यस्तान् परितस्तनुं परिकरानीशे समीकुर्वति । मन्दोदश्चितहासभाधवलिमप्रध्वस्ततत्साध्वसं सव्याङ्गं सवहर्तुरस्तु महते नव्याय भव्याय नः ॥ प्रत्यूहप्रतिषिद्धोक्तिकविप्रत्ययदायिने । पुञ्जाय महसां तस्मै कुञ्जराय मुखे नमः ॥ आकर्षन्वनदुर्गया जिगमिषू यस्त्वां विजित्यादरात् श्रीमच्छृङ्गगिरिं तवाम्ब विदधे लीलाविहारस्थलीम् । श्रुत्वा भारति तस्य दिग्जयकथासन्दर्भगर्भ यशः प्रस्तोतुं मितबुद्धयोऽद्य भवतीसाहाय्यमीहामहे ॥ श्रीमच्छङ्करसद्गुरोर्भगवतोऽगाधामसाधारणी वाणी नः प्रतनीयसी मुहुरिमां गाढुं समुत्कण्ठते । तन्मूर्तिः प्रभुरेव भक्तजनतावात्सल्यवैपुल्यभूरस्यै साधु ददातु शस्तदयया हस्तावलम्बं ह्रः ॥ तनवानि चिरन्तनोक्तिकोटिस्फुटतवानुभवाप्तसंशयाय ।। गुरुदिग्जयमार्गदर्शिनेऽस्मै नतिमानन्दगिरीन्द्रदेशिकाय ॥ विद्याशङ्करहृद्यसद्गुणभरैराप्यायितेयं भवे. न्मद्वागप्यनवद्यविद्वदतुलानन्दौघसन्दायिनी । पाथ. प्राकृतकूपनद्युदितमप्यध्वन्यपङ्केः पुनः किं वा नेषदुशीरचन्द्रसुमनस्सङ्गेन तुङ्गायते || करवाणि देवि चरणाभिवादनं करुणाबलेन तव वाणि साधु मे । यतिसिंहदिग्जयविलासगर्जितेष्वतिसिंहविभ्रममुशन्तु सूरयः ॥ शुण्डाकुम्भयुगी परं नखचरप्रौढी ममाप्राकृता वर्वय॑त्र कियान्करीति मशकव्याहारमत्यर्घयन् । प्राचीनाः कविकुञ्जरा इव नटन् जिहेमि नैवाधुना तूष्णीके मयि तस्य हस्तिमशकन्यायस्य का वा गतिः ।। जम्बूद्वीपमहोक्षमण्डनककुत्तुङ्गं धराकामधुक शृङ्ख मङ्गलमङ्गलं किमपि तच्छ्रेयःपदं योगिनाम् । For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy