SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8291 महीयांसं हर्ष मनसि वितरीतुं तनुभृतामुदीतौ द्वौ ताराप्रियतमयतिमापरिबृढौ ॥ कलादानादाद्यो भजति लघुतां पश्यत जनाः परो दोषापेतः प्रथयति ततो हन्त गुरुताम् ॥ वाराशिपूरापतदुर्मिधारादोराहवारम्भधुरीणसूक्तिः । पारावरी नः प्रथयन्निरुन्धे कूराधिनाथः कुदृशां यशांसि ॥ आम्नायचूडार्यनुतिं चिकीर्षुरादौ तदीयान् प्रणुमः कृतीन्द्रान् । निरर्गलोद्यन्निजसूक्तिवाक्यान्निधूततत्तन्मततूलजालान् ॥ परस्सहस्रं परवस्तुनाम्ने कुर्वे प्रणामान् कुलदैवताय । वेदान्तविद्यागुरुसूक्तिगङ्गा विष्वङ्मुखी भाति यदुक्तिवर्षः ॥ दिं मुदे स्यात् परवस्तुसूरेर्यदन्वये जन्मजुषां शिशूनाम् । आम्नायचूडागुरुशेखरस्य नाम्नां कलापा नव भूषणानि ॥ विद्याविशेषान् विदितानवन्ध्यान् वृत्तेन शीलेन च यो वितेने । वि(वी)तावलेपो विजयी स भूयान्मातामहो मे परवस्तुनामा । व्यासश्चेव्यसनावहः श्रुतिगिरां वातन्धयग्रामणीः धत्ते(भोगरुचिं धराश्रतिभवो) रामान्वयैकोत्सुकः । मौढ्यं याति गुरुर्जडो हिमकरस्सूर्यो विरोधी सतां साधर्म्य परवस्तुवेङ्कटगुरोर्वात्स्यस्य(क)स्साधयेत् ॥ दयाधनस्तस्य गुरोस्तनूजो जयाय भूयान्निगमान्तसूरिः । यस्मादसीमप्रतिभाविलासादस्माभिरग्राहि कलाकलापः ॥ विजयी भवतु । आकल्पमस्मजनको जयी स्यादाकल्प एको निरपायवाचाम् । . वृषाचलासक्तिजुषं विनीतं यं वेङ्कटेशं कलयन्ति सन्तः ।। विद्याविलासे यदि ते दिदृक्षा विचित्रयुक्तौ यदि वा सिसृक्षा । अपास्य शङ्कां मयि चित्तहर्षादानायचूडागुरुमाद्रियेथाः ॥ विजयी भवतु । चिरन्तनभणितिशिखरपरिषदमृतनिचयपरिचयमृदुलहृदयोदारकेदारसमधि रूढसमुल्लसद्भहणधारणादिमृदुलपरिष्वङ्गतरङ्गितोपचयमतिविततिपुण्ड्लतिकोदश्चितसर्वतन्त्रस्वतन्त्रतागुणमिलनललितयशोधोरणीरमणीयमणिमालिकापरिष्कृतधरणि For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy