SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8264 A DESCRIPTIVE CATALOGUE OF परानपेक्षा च धवानुवर्तनं प्र(प)तिव्रताचार इति प्रतीयते । विरुद्धमेवात्र भवान् ब्रवीति मां कथं त्वदन्यं कलये पृथा पतिम् ॥ यदि त्वमेवं मनुषे प्रजाप्तये शृणु प्रियं किञ्चिदगर्हितं सताम् । सपर्यया म्य(म)ह्यमतिप्रसन्नधीरपत्यदं मत्रमदात्तपोनिधिः ॥ समन्त्रकं मैत्रिमथास्मरत्सती प्रशंसतः पत्युरथाज्ञया पृथा । तथा मुदाविर्भवता च तेन सा सरोजिनीवांशुमतान्वगृह्यत ।। अथ पृथा प्रथिते दिने युधिष्ठिरं नाम तनयं विनयमिव विद्या प्रासूत । तदु. दयदिने न केवलं दिश एव प्रसन्नतां दधुरपि तु पितॄणां शुचोऽपि ॥ Colophon: इत्थं लक्ष्मणसूरिणा शनगरपामावतंसायित. श्रीगङ्गाधरधीरसिन्धुविधुना गङ्गाम्बिकासूनुना । श्राव्ये भारतचम्पुकाव्यतिलके भव्ये प्रणीते महत्याश्वासः प्रथमोऽगमत्सुमनसामानन्दसन्दोहनः ॥ नीतिशालिनममुं सिषेविरे नित्यमञ्जलिभृतो नृपात्मजाः । प्रातरुन्नमितकुड्मलान्तरा भानुमन्तमिव पङ्कजाकराः ॥ विख्यातैश्चतुरन्तराजविजयादग्रस्वरो विक्रमैरन्वीतस्स(ह)जैरवाप्ततनुभिस्सामाधुपायैरिव । पाञ्चालीमुपलालयन्नभिमतैर्भोगैः प्रजाः प्रीणयन् राज्यं पालयति स्म धर्मतनयो राजन्यचूडामणिः ॥ Colophon: इत्थं लक्ष्मणसूरिणा शनगरपामावतंसायितश्रीगङ्गाधरधीरसिन्धुविधुना गङ्गाम्बिकासूरि(नु)ना । श्राव्ये भारतचम्पुकाव्यतिलके भव्ये प्रणीते मह त्याश्वासोऽभिनवार्थशब्दघटनासार्थश्चतुर्थोऽगमत् । End: No. 12333. भैष्मीपरिणयचम्पुः. BHAIŞMIPARIŅAYACAMPUH. Pages, 28. Lines, 9 on a page.. Begins on fol. 14a of the MS. described under No. 11864, Incomplete. For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy