________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8262
A DESCRIPTIVE CATALOGUE OF
___No. 12331. भागवतचम्पव्याख्या-रत्नावली.
BHAGAVATACAMPU VYAKHYA: RATNAVALİ. Substance, palm-leaf. Size, 15x' is inebus. Pages, 199. Lines, 7 on a
page. Character, Grantha. Condition, good. Appearance, old. Complete.
A commentary on the Bhagavatacampu of Abbinava Kalidasa, who is bere said to belong to Vellāla family : by Akkayasūri, son of Vēnkațărya of Mõkşaganda family and nepbew of Pakşadbara Yallayarya. Beginning:
महेशानं महीशानमहीशानफणाशयम् । रमाशयशयं नित्यमाश्रये जगदाश्रयम् ॥ श्रीचम्पुभागवतवृत्तिसुदीपिकान्तां लिख्येऽहमादरभरेण रसौघसान्द्राम् ।
श्रीमाक्षगुण्डकुलमण्डनवेङ्कटार्य श्रीसूनुरच्युतपदाब्जमरन्दभृङ्गः ।। श्वशुरगृहनिवासस्स्वर्गतुल्यो जनानामिति मधुमधुरां यस्सार्थयन् पूर्वगाधाम् । निमिषमपि न विहातुं तस्थिवानब्धिसद्म श्रियमयामेति कम्रः श्रीपतिर्नस्तनोतु ।।
सद्वन्दवन्द्यस्सदनुग्रहाप्तः हृद्यानुविद्याखिलविद्य एषः । अक्कय्यविद्वान् नवकालिदासश्च(च)म्पूप्रबन्धस्य तनोति टीकाम् ।। वेल्लालकुलवाराशिजातशीतांशुनामुना । कालिदासेन नव्येन गीतं श्रोत्रनभःकृतम् ॥ कालिदासस्य नव्यस्य निसर्गमधुरा गिरः । टीका रत्नावली भूषा तथाप्यासां भवत्यसु(सौ) ॥
इह खलु वेल्लालकुलशिरोमणिस्तत्रभवानभिनवकालिदासो नाम महाकविस्सकलकल्याणगुणशरण्यस्य भगवतो वासुदेवस्य गुणक्रियास्वरूपप्रतिपादनाविनाभूततया निरतिशयपुरुषार्थसाधनं " काव्यं यशसेऽर्थक व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे” इत्याद्यालङ्कारिकवचनप्रामाण्याल्लौकिकपुरुषार्थोपै (पयि)कं भागवतचम्पुनामकं महाकाव्यं चिकीर्षुश्विकीर्षिताविघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलसाधनम् “ आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुख"मित्याचार्यदण्डिवचसा प्रबन्धमुखलक्षणत्वेनावगतमाशीरूपं मङ्गलं ग्रन्थादौ श्लोकषटकेन निबध्नाति---कल्याणमिति । लक्ष्मीक(र): कवर्गस्स्यादिति वचनात् कवर्गप्रयोगः शुभकरः । आदौ भूदेवताकस्य सर्वगुरोः मङ्गल(गण)स्य च प्रयोगः क्षेमङ्करः । तदुक्तं उत्तरत्नाकरे मो भूमिस्त्रिगुरुः श्रियं वितनुत इति । एवं वर्णगणादिशुद्धिरस्ति ।
For Private and Personal Use Only