________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8248
A DESORIPTIVE CATALOGUE OF
भव्योल्लासं वितरतु सभोल्लासक्लप्तप्रतिष्ठः प्रौढध्वान्तस्फुरणहरणस्सत्पथे सन्निविष्टः ॥ विशासितकुशासनं विविधबन्धविच्छेदनं जिनाधिपतिशासनं जयतु भव्यसन्नायकम् । कुतीर्थकरवासनाकुलितचित्तसन्त्रासकं सतां सुगुणशालिनां सकलमङ्गलाशासनम् ।। रत्नत्रयं राजति चै(जै)त्रमन्त्रमचिन्त्यविद्याद्भुतशक्तियुक्तम् । मोहक्षमावल्लभगुप्तसेनां जिगाय तां येन जिनाधिराजः ।। कल्याणं कलयन्तु पूर्वकवयः पीयूषकल्लोलिनीसलापे प्रथमानकोमलवचोधारास्फुरत्कीर्तयः । यैराधीश्वरसत्कथामृतझरी नीता प्रकाशं परं संसारोद्भवतापमप्रतिहतं लोकं नयत्यन्ततः ॥ श्रीमद्गौतमनामधेयगणभृत् प्रोवाच यां निर्मलां ख्यातः श्रेणिकभूभृतो जिनपतेराद्यस्य रम्यां कथाम् । तां भक्तथैव चिकीर्षतो मम कृतिश्चम्पूप्रबन्धात्मिका वेलातीतकुतूहलाय विदुषामाकल्पमाकल्पताम् ॥ जातेयं कवितालता भगवतो भक्तचाख्यबीजेन मे चञ्चत्कोमलचारुशब्दनिचयैः पयैः प्रकामोज्ज्वला । वृत्तैः पल्लविता ततः कुसुमितालङ्कारविच्छित्तिभिः
सम्प्राप्ता वृषभेशकल्पकतरुं व्यङ्गयश्रिया वर्धते ॥ अथ विशालवाजिमालाविक्षिप्तविविधमौक्तिकपुञ्जसञ्जातमरालिकाभ्रमसमागतदृढालिङ्गनमङ्गलतरङ्गित रजताचलस्योत्तरश्रेण्यामलकाभिधाना पुरी वरीवति ।
शास्ता तस्याः सकलखचरक्ष्मापकोटीरकोटीखेलन्मालासहशविलसच्छासनः संबभूव ।। धीरः श्रीमानतिबल इति ख्यातनामा खगेन्द्रः प्रख्यात श्रीनिजकुलमहामेरुमन्दारशाली।।
For Private and Personal Use Only