SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8240 A DESCRIPTIVE CATALOGUE obe सोऽहं हंसायितुं मोहाद्वकः पर्यथेच्छति । मन्दधीस्तद्वदिच्छामि कविबृन्दारकायितुम् ॥ भङ्गश्लेषकथाबन्धं दुष्करं कुर्वता मया । . दुर्गस्तरितुमारब्धो बाहुभ्यामम्भसां निधिः ।। उत्फुल्लगल्लैरालापाः क्रियन्ते दुर्मुग्वैस्सुखम् । जानाति हि पुनस्सम्यक् कविरेव कवेः श्रमम् ॥ सङ्गता सुरसार्थेन रम्या मे रुचिराश्रया । नन्दनोद्यानमालेव स्वस्थैरालोच्यतां कथा । उदात्तनायकोपेता गुणवत्तमुक्तका । चम्पूश्च हारयष्टिश्च कस्य न ध्रियते हृदि ॥ . किं बहुना देशः पुण्यतमोद्देशः कस्यासी न प्रियो भवेत् । युक्तोऽनुक्रोशसंयुक्तैर्योजनैरिव यो जनैः ॥ तस्य विषयस्य मध्ये निषधो नामास्ति जनपदः प्रथितः । तत्र पुरी पुरुषोत्तमनिवासयोग्यास्ति निषधेति ॥ धन्यास्ते दिवसास्स येषु समभूद्भूपालचूडामणिलोकालोकगिरीन्द्रमुद्रितमहाविश्रान्तकीर्तिनलः । लोकास्तेऽपि चिरन्तनास्सुकृतिनस्तद्वक्रपलेहे यैर्विस्फारितनेत्रयन्त्र(पत्र)पुटकैलावण्यमास्वादितम् ।। Colophon: इति श्रीत्रिविक्रमभट्टविरचितायां हरचरणसरोजाङ्कः प्रथमोच्छ्सः ॥ Colophon: इति श्रीत्रिविक्रमभट्टविरचितायां हरचरणसरोजाङ्कायां दमयन्तीकथायां पञ्चमोच्छासः ॥ End: तदेतदात्मपरिग्रहेणानुगृह्यतामित्यभिधाय विश्रान्तवाचि तस्मिन् स किन्नरयुवा किमप्युपसृत्य मृगमदमिलन्मलयजरसोल्लासितरेखालाञ्छितललाटपट्टार्पितकरकमलमुकुलप्रणतिप्रेसितमणिकर्णावतंसया सह प्रियया प्रणाममकरोत् । उक्तवांश्च लब्धाधचन्द्र ईशः कृतकं सभयं च . . . . . For Private and Personal Use Only
SR No.020206
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 21
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages505
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy