________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8229
धिस्नेहपरिवाहिजनकलिहिताभिलषितकर्मा सहधर्मिणीप्रणीतसमधिकानुरोधविधिरतिमहान्तमन्वभूदानन्दम् ।
सौभागिनेयस्स तदा शोभायै श्रुतिसम्पदाम् । असेवत शिवाकल्पकल्पमप्पयदीक्षितम् ॥ कर्णश्रीचिन्नबोम्मक्षितिपतिरभितो लम्भयन् शातकुम्भस्तोमं हेमाभिषेकप्रणय(न)समये यस्य मूर्ति प्रशस्याम् । रेजे श्रीरङ्गराजाध्वरिवरकलशाम्भोधिलब्धप्रसूते. विद्याकल्पद्रुमस्य स्वयमिव रचयन् जातरूपालवालम् ।। नीलकण्ठमतनिर्वहणोत्कादुक्तिवृष्टिमुपलभ्य तदभ्रात् ।
ईशयोग्यमयमाशयभूमौ बोधशालिभरमेधयति स्म ॥ Colophon:
इति श्रीवाधूलकुलतिलकस्यातियात्रयाजिनः समरपुङ्गवदीक्षितस्य कृतौ तीर्थयात्राप्रबन्धे द्वतीयाश्वासः ।। End:
प्रालेयाद्रिसुतासहायभजनप्रेमानुबद्धस्पृशी विद्याशीलविनीत . . . (त)पोविश्राणनासङ्गिने(?) । आस्यस्त्रेण पराङ्मुखाय करुणामूर्तेषु सम्बिभ्रते
मूर्धा सन्नतिमग्रजाय महते मोदान्मुहुः कुर्महे(?) || Colophon:
इति श्रीवाधूलकुलजलधिकौस्तुभस्यातिरात्रयाजिनस्साहित्यगुरोः कनकालवालबिरुदावस्य वेङ्कटेशसुमतिसहधर्मिणीमण्यनन्तमागर्भशुक्तिमुक्तामणेस्समरपुङ्गवदीक्षितस्य कृतौ चम्पुकाव्ये तीर्थयात्राप्रबन्धे परिपूर्तिशोभितविलासो नाम नवम आश्वासः ॥
वीतस्पृहाय विरजस्तमसे समस्तशास्त्र(श्रुति)स्मृतिविदे समदर्शनाय । सिद्धाशिषे भगवदनिसमग्रभक्तिसान्द्रप्रसन्नव(म)नसे सदसे नमोऽस्तु ।
No. 12298. तीर्थयात्राप्रबन्धः.
TĪRT HAYATRĀPRABANDHA”. Substance, paper. Size, 138x8 inches. Pages, 190. Lines, 20 in a
page. Character, Dēvanāgari. Condition, good. Appearance, new. Contains one to five Asyåsas complete and the sixth incomplete. Same work as the above.
For Private and Personal Use Only