________________
Shri Mahavir Jain Aradhana Kendra
8220
www.kobatirth.org
A DESCRIPITIVE CATALOGUE OF
४. गुणमालालम्भः.
५. पद्मालम्भः.
६. क्षेम श्रीलम्भः
Beginning:
The subject-headings of the 11 Lambbas of the work are given below :--
१. सरस्वतीलम्भः.
२. गोविन्दालम्भः.
३. गन्धर्वदत्तालम्भः.
Acharya Shri Kailassagarsuri Gyanmandir
७. कनकमालालम्भः.
८. विमलालम्भः.
९. सुरमञ्जरीलम्भः.
१०. लक्ष्मणालम्भः.
११. मुक्तिलम्भः.
यस्य श्रीनखकान्तिनागसरितः कूर्मायतेऽद्वियं सेवानम्रसुरेन्द्रवज्रमकुटीमाला मरालायते । पश्यन्निर्जरयोषिदम्बकततिर्मीनप्रपञ्चायते क्षोणीशाञ्जलयः पयोजमुकुलंत (न्त्या) द्यो जिनस्सोऽवतु ॥ श्रीपादाक्रान्तलोकः परमहिमकरोऽनन्तसौख्यप्रबोधः
पापध्वान्तापनोदप्रथितनिजरुचिस्सत्समूहाधिनाथः । श्रीमान् दिव्यध्वनिप्रोल्लसदखिलकलावल्लभो मन्मनीषा - नीलाब्जन्या विकासं वितरतु जिनपो धीरचन्द्रप्रभेशः ॥ हरीशपूज्योऽप्यहरीश पूज्यस्सुरेशवन्द्यो ऽप्यसुरेशवन्द्यः । अनङ्गरम्योऽपि शुभाङ्गरम्यः श्रीशान्तिनाथः शुभमातनोतु || आयतदिव्यशरीरं शिवसौख्यकरं सुदृग्भिराशास्यम् । रतिरागहीनमीडे पूर्व श्री वर्धमानकन्दर्पम् ||
लोकोर्ध्वभागविजने मुक्तिकान्ताविराजितान् । नष्टकर्माष्टकान् सिद्धान् विशुद्धान् हृदि भावये || भजे रत्नत्रयं प्रत्नं भव्यलोकैकभूषणम् । तोषणं मुक्तिकान्तायाः पूषणं ध्वान्तसन्ततेः ॥ वाणी कर्मकृपाणी द्रोणी संसारजलधिसन्तरणे । वेणीजितधनमाला जिनवदनाम्भोजभासुरा जीयात् ॥
अरन्ध्रसद्दत्तमणिमनन्तगुणगुम्भिताम् । अपूर्वमालां मन्येऽहं पूर्वाचार्य परम्परान् (म्) | गद्यावली पद्यपरम्परा च प्रत्येकमप्यावहति प्रमोदम् । हर्षप्रकर्षे तनुते मिलित्वा द्राक् बाल्यतारुण्यवतीव कान्ता ॥
For Private and Personal Use Only