________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
8218
Mallinatha, one of the ancestors of the author, is said to have been bathed (in gold) by Virarudra (Warangal), Peddubhatta is said to have been bathed (in gold), by (the King) Sarvajña (Singa). Nāgēbvara, son of Bhaskara, is said to have performed a sacrifice with the help of his four sons, four grandsons, four sons-in-law and four daughters' sons. Beginning:
श्रीराम(श्रि)तकल्पद्रु कल्पोज्ज्वलसमप्रभम् । लक्ष्मणानिलपुत्रादिसेवितं सततं भजे ॥ श्रीगोपालपदारविन्दभजनप्राप्तात्मविज्ञानदादात्मानन्दसुधानिधाननिधितः स्वान्तात् स्वसंपीत्वराम् । विद्यासन्धितवेदनारतविदो वेदार्थसंवेदनात गोपालेन्द्रसरस्वतीभगवतो नोनोमि नित्य गुरुन् ॥ नोनूमो नयविन्नेयं नित्यं वैनायकं महः । नानशीति हि यद्ध्यानात् सद्यः प्रत्यूहजं तमः ॥ परादिभिर्जगत्राणी राणी वाणी स्वसम्पदः । प्रणमामि चतुर्भागां चतुरर्थप्रदायिनीम् ।। कुम्भयोनिमगस्त्यं च वाल्मीकिप्रभृतीनृषीन् । हनूमन्तं रामभक्तं नमामि नियतव्रतम् ।। कोलचल्लान्वयाब्धीन्दुः मल्लिनाथो महायशाः । शतावधानविख्यातो वीररुद्राभिवर्षितः ॥ . मल्लिनाथात्मजः श्रीमान् कपर्दी मन्त्रकोविदः । अखिल श्रोतकल्पस्य कारिकावृत्तिमातनोत् ॥ कपर्दितनयो धीमान् मल्लिनाथोऽग्रजस्स्मृतः । द्वितीयस्तनयो धीमान् पे भट्टो महोदयः ॥ महोपाध्याय आख्यातः सर्वदेशेषु सर्वतः । मातुलेयक(क)तो दिव्ये सर्वज्ञेनाभिवर्षितः ॥ गणाधिपप्रसादेन प्रोचे मन्त्रवर(रान् ) ब(हून् )। नैषधज्यौतिषादीनां व्याख्याताभूजगद्गुरुः ।। रोहिभट्टसुतः श्रीमान् कुमारस्वामिसंज्ञिकः । प्रातापरुद्रीयाख्यानव्याख्याता विद्वदग्रिमः ।।
For Private and Personal Use Only