SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1730 A DESCRIPTIVE CATALOGUE OF जननहेतुकमप्यकृतारिखलं सपदि कर्म शुभं यदुनन्दनः । वसुमतीसुरब(बृन्दमतूतुषद् विविधदानतति समुदाचरन् ।। ८३॥ प्रघोषो निस्साणप्रभृतिसुरवाद्योपजनितोऽभवद्यस्मिन् जाते तमतनुत नाम्ना यदुपतिः । प्रघोषं पुत्रं स्वं निजकुलपुरोधःप्रभृतिभिः समेतोऽन्यैर्विप्रैः शुभगुणगणे . . . दिने ॥ ८४ ॥ अनिशमापततैवमुपर्युपर्यमितमोदभरेण युतो हरिः । विहरति स्म स मदतनूजया सह विदर्भजयापि ससत्यया ॥५॥ लसति यो रमया परमे पदे दिनकरेऽम्बुनिधौ हृदि योगिनाम् । अवततार जगद्बहुधावितुं विजयतेऽत्र गिरावधुनापि सः ॥८६॥ भरद्वाजश्श्रीमान्वसांत मुनियों यदुटजे स्वयं तस्योपान्ते मणिरचितसौधे यदुपतिः । रमाभूमीनीळाप्रतिकृतिमिराभिः सह सदा वसन्त्सान्वद्रौ संरमयति नतामेष जनि(न)ताम ॥ ८७ ॥ तदनुग्रहतो द्विजात्मनास्मिन् मुदमादातुमना नणां सुरोधः । वदनाढतवेदवेदमूर्धा चिदनाविष्करणे रतोऽस्ति शैले ।। ८८ ॥ सततं तरवः फलन्ति सौनं विततं मञ्जुलता तति प्रसूते । गततत्कुहरा मुदा जनालिः सुततन्नतृमुरवं निरीक्षतेऽत्र ।। ८९ ॥ शृण्वन् पठन् काव्यमिदं लभेत भक्त्या द्विजातिश्चतुरः पुमर्थान् । जीवोऽपि कृत्स्नं महिमानमस्य नालं प्रवक्तुं किमुतैष लोकः ॥ ९॥ Colophon: इत्या श्रीमत्कृष्णायने तदनन्तरकाव्ये भगवदनुग्रहलब्धे भरद्वाजप्रोक्तद्वितीयकाण्डे लक्षणाकुमारोदयो नाम षष्ठः सर्गः ॥ चरितं रघु(यदु)नाथस्य शतकोटिप्रविस्तरम् । एकैकमक्षरं प्रोक्तं महापातकनाशनम् ॥ कंसान्तकाय विलसन्माणिकुण्डलाय गोपीजनस्य कुचकुङ्कमरञ्जिताय । मन्दस्मिताय सितनीरजलोचनाय कृष्णाय नन्दतनयाय नमो नमस्ते ॥ कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने । नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy