SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8098 गोपालदामोदरदेवदाससंज्ञा बभूवुस्तनयास्तदीयाः । नेत्रावतारा इव चन्द्रमौलेरपाकृतध्वान्तगुणास्त्रयोऽपि ॥ तेषां मध्ये यस्तु दामोदरोऽभूदुत्पाद्य त्रीनात्मजान् वीतरागः । भागीरथ्यां शुद्धदेहं विधाय ज्ञानात्मत्वे देवनिष्ठां जगाम ॥ ज्येष्ठः शार्ङ्गधरस्तेषां लघुलक्ष्मीधरस्ततः । कृष्णानुजस्ततस्तेऽपि त्रयस्त्रेताग्निसन्निभाः ॥ जयति शार्ङ्गधरस्त्रिपुरारिपट्टयकुशेशयकोशमधुव्रतः । सरससूक्तिसुधौघकलानिधिः कविकरीन्द्रकदम्बमृगाधिपः ॥ यद्यपि गुणौघनिलयः खलशैलध्वंसने जिष्णुः । तदपि विमलहृदयान्तरसज्जनलोकस्य दासोऽसौ ॥ ते सज्जनाः सुकविशाखिकवित्वपुष्पाण्यादाय गुम्भितवतः स्वगुणैर्ममैतत् । संधारयन्तु कुसुमोज्ज्वलहारभूतं कण्ठे सुभाषितमपास्तसमस्तदोषम् ।। न शार्ङ्गधरपद्धतिः खलजनस्य योग्या भवेत् सुभाषितमहोर्मयः सुकृतलोकपेया यतः । सुधामदितिनन्दना दिवि पिबन्ति हृष्टान्तरास्तथैव तमसश्शिरो झटिति खण्डितं श्रूयते ॥ आनन्दाय सतां भूयात्सुभाषितमिदं मम । पृथुपद्धतिसम्मिश्रं परिच्छेदैर्मनोरमम् ॥ आद्यैर्मदुदितैः पद्यैः कियद्भिरपरैरपि । युता पद्धतिरेषास्तु सज्जनानन्ददायिनी ॥ Colophon: इति श्रीशार्ङ्गधरेण श्रीदामोदरसू नुना विरचितायां (पद्धत्यां) कविवंशवर्णनं नाम प्रथमः परिच्छेदः ॥ End: मध्ये भानोस्तु माणिक्यं पूर्वे वज्रं तु भार्गवम् । आग्नेय्यां मौक्तिकं त्विन्दोर्याम्ये भूजस्य विद्रुमम् ॥ नैऋत्यां राहुगोमेधं वारुण्यां मन्दनीलकम् । वायव्ये केतुवैडूर्य पुष्यरागमुदग्गुरोः ॥ ज्ञस्यैशान्ये मरकतं स्थापनीयं विचक्षणैः । एतल्लक्षणसंयुक्ता मुद्रा दारिद्यनाशिनी ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy