SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir THE SANSKRIT MANUSCRIPTS. 8079 (म्) भ्रान्तं देशमनेकदुर्गविषमं प्राप्तं न किञ्चित् फलं त्यक्ता जाति कुलाभिमाननुचितं सेवा कृता निष्फला । भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत् तृष्णे नृम्भसि पापकर्मपिशुने नाद्यापि संतुष्यसि ॥ (व्या) ॥ अनेकैः बहुभिः दुर्गः पार्वतवाक्षजलदुर्गादिभिः विषमं विकटं दुःसञ्चारमित्यर्थः । देशं भ्रान्तं संचरितम् । ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः । युक्त इत्युच्यते लोकैः समलोष्टाश्मकाञ्चनः ॥ इत्यादि । Colophon: इति श्रीपरमयोगीन्द्रबृन्दमानसमिलन्मिलिन्दसन्दोहामन्दानन्दलाभाभिनन्दितरघुनन्दनचरणारविन्दमकरन्दास्वादनकन्दलितसारसारस्वतेन अखण्डतपःप्रचण्डमुनिप्रकाण्डमण्डलेश्वरशाण्डिल्यमहामुनिगोत्रावतंसस्यावश्चान्वयसुधापारावारपारिजातस्य धन्वन्तर्यवतारान्तरस्यायजु(यु)र्वेदप्रमुखनिखिलविद्यानवद्यगद्यपद्यनिर्माणचातुरीधुरीणसकलकविकुलसार्वभौमस्य कोण्डोपण्डितवर्यस्य तनूजेन गङ्गाम्बिकागर्भरत्नाकरसुधाकरेण रामचन्द्रबुधेन्द्रेण विरचितायां सुभाषितत्रिशतीव्याख्यायां सहृदयानन्दिन्याख्यायां नीति(वैराग्य)शतकवर्णनं सम्पूर्णम् ।। वन्देऽहं रघुनन्दनाङ्ग्रिसरसीजातद्वयीमद्दयामन्दान(न्द)मरन्दबिन्दुलहरीसन्दोहनिष्यन्दिनीम् । यत्रेन्दिन्दिरजातवन्मुनिमनोवृन्दं कृतस्वाश्रयं काचि(चित्तुन्दिलतामविन्दत परानन्दाव चो बो(धो)दयात् ॥ शतमखमुखा लेखाः प्रापुर्दिशन्तमुदारतां निधिमनवधिं दिव्यं चक्षुर्यथा समवाप्य यत् । किमपि सुमहोमोहध्वान्तान्तरीकरणक्षम शरणममलं यामि श्रीमत्प्रचण्डपिचण्डिलम् ॥ चतुरा चतुराननाननाभजे(ब्जे) प्रतिभाति(प्रतिभाति)राजहंसी । कमले कमलेव सर्वदा सा सुखदा सत्सुखदा सरस्वती स्यात् ।। श्रीमांस्त्रलिङ्गदेशे स जयति विबुधश्रेणिकोटीरकोटी(कोटी)माणिक्यभूतागणितगुणगणोऽखण्डपाण्डित्यशौण्डः । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy