________________
Shri Mahavir Jain Aradhana Kendra
8058
www.kobatirth.org
End:
A DESCRIPTIVE CATALOGUE OF
No. 12053. नीतिशतकम्. NITIŚATAKAM.
Pages, 7. Lines, 7 on a page.
Begins on fol. 51a of the MS. described under No. 9358, wherein this work has been omitted to be mentioned in the list of other works given therein.
Complete.
Similar to the above.
By Srinivasacārya, son of Srinivasa Tatacarya and brother and disciple of Annayarya. He is the same as the author of Jijñāsadarpana (4883), Virodhanirādha (4996), etc.
Beginning :
Colophon :
Acharya Shri Kailassagarsuri Gyanmandir
लक्ष्मीचरणलाक्षैकलक्षणं शुभवीक्षणम् । शेषक्षितिधराध्यक्ष मम्बुजाक्षमुपास्महे || सदाक्षिण्यदृशा मित्रममित्रं वामया दृशा । वशं नयति यः श्रीमान् सत्यं स पुरुषोत्तमः । राज्ञः कलङ्किनः प्रीतिमनवेक्ष्यानिशोज्वलाः । प्रभावतः प्रियाः केचित्कवयः सन्ति सर्वतः ॥ भुजङ्गभोगाष्टस्य मन्दरागस्य मज्जनम् ! कथं भूयान्न भोगानां प्रसादायामृतार्थिनाम् || तरङ्गितरसोल्लासैर्मित्रभेदं वितन्वताम् । सरसां सम्पदं हर्तुं शुरभ्युदयो भवेत् ॥
इत्थं स्फुरदलङ्कारां सदा श्लेषरसोर्जिताम । अङ्गीकरोतु शृङ्गारी कश्चिन्मे कवितां हिताम् ॥ कलुषाशयमप्याशु प्रसन्नं कुरुते यतः । सन्तः पश्यन्तु शतकं शान्तया कलया गिरा ॥ वराहवपुषः श्रिया वसुधया लसद्रोचिषो वृषाचलशिखाजुषः करगतारिभूरित्विषः । घनाघनरुचिद्विषः प्रचुरदानवारिश्लिषः
प्रभोः शुभदमीक्षणं प्रियमनुक्षणं प्रापये ॥
इत्यण्णयार्यसहजः कमलानिवासतातार्य सूनुरयमग्र जलब्धशास्त्रः । आचार्यदीक्षितकटाक्षधनी सुनीतिपद्यानि हृद्यवचनान्यचिनोन्मधूनि ॥
For Private and Personal Use Only