________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
8026
A DESCRIPTIVE CATALOGUE OF
Begins on fol. la. The other work heroin is Kalinganīti (Kanarese) 59a, Rājanīti (Kanarese) 63a.
Complete.
Same work as that described under R. No. 385 of the Triennial Catalogue of MSS., Vol. I, Part I-B. The commentary is by Nagaņārya, son of Dāvaņārya of the Bhārad vājagātra. Beginning: व्याख्यातुर्मङ्गलाचरणम्-~
वन्दारुगीर्वाणकिरीटकोटिस्फुरत्प्रभापादपयोजयुग्मम् । वामार्धवामं भुजगेन्द्रभूषं तद्वस्तु वन्दे शशिखण्डचूडम् ॥ सरस्वतीभूरिविजृम्भणाय सरस्वती कां शरणं भजामः । यस्याः कटाक्षक्षणवीक्षणेन भवन्ति मूका अपि वावदूकाः ॥ वंशाद्भरद्वाजमुनेः प्रसूतः स देवणाराध्यमनीषिवर्गः । तस्माद्विजज्ञे जलधेरिवेन्दुर्विशुद्धधी गणनामधेयः ।। न विद्यते यद्गणनाथ तस्य देवद्विजात्यर्थबहुव्ययेषु । प्रजास्ततः सार्थकनामधेयं तं नागणाख्यं सुधियो वदन्ति | स(न)पूर्वमेतद्विदुषान(पि)केन व्याख्यायि काव्यं कविराक्षसीयम् ।
तस्माच्छिशूनां सुखबुद्धये तयाकर्तुमाकाइति संविविच्य ।। इह खलु कविः काव्यादावालङ्कारिकोक्तेषु प्रबन्धमुखलक्षणेष्वाशीनमस्क्रियावस्तुनिर्देशेष्वन्यतमस्य विधेयता(तया) प्रारिप्सितग्रन्थाविघ्नपरिसमाप्त्यादिप्रयोजनाय च सकलदेवतात्मकं भगवन्तं श्रीकृष्णं कीर्तयन्नाशिषं प्रयुङ्क्ते- .
त्रयीयुवतिसीमन्तसीमासिन्दूरबन्धवः । संसाराब्धि पिबेयुर्वः कंसारेः पादपांसवः ।।
कविः स्वौद्धत्यं परिजिहीर्षः प्राह
गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेलाविवेश्वरः ।
शिरसा श्लाघते पूर्व परं कण्ठे नियच्छति ॥ बुध्यत इति बुधो विद्वान् . . . . . . . . . . अन्योऽप्यर्थः तस्य शक्तया महिन्ना हेतुना सर्वेषां दानवानां रक्षसां निवृति पुनरुज्जीवनरूपं सुखं कुर्वाणा । काव्यस्य शुक्रस्य विद्या संजीवनीविद्येत्यर्थः ।
For Private and Personal Use Only