________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSCRIPTS.
801
श्रीमान् कामोऽभिरामो जयति जनमनोरञ्जनः काहग्भूः सुभ्रूषूद्भूय भूयो भवनयनधुतोऽप्येधयत्येव चैनम् । युक्तं युक्तांश्च रक्तान् विविधविलसितैः किन्तु कैश्चिद्वियुक्तः
कुबैस्तप्तैश्च शप्तोऽनिशमपि वनितौरस्यदुर्गान्तलीनः ॥ Colophon:
इति शृङ्गारसारसारिण्यां कामवैभववर्णनपद्धतिः प्रथमा ।। End:
प्रपश्यतोऽभितो बहून् प्रति द्विषटत्रिसप्तकान् विनिर्दिशन्त्यधोऽङ्गुलीभिरास्थिता मुहुर्मुहुः । ततोरुरत्र लीलया प्रतप्य तानहर्निशं जगदशीकृतिक्षमेति वक्ष्यतीव नर्तकी ॥ मुग्धेऽन्त्यग्रहभार्ययोडमरुके वेगे मृगेऽपि क्रमात् स्यादाद्याक्षरवाच्यमिष्टमिति किं त्वङ्गत्तरङ्गज्झणा । धाधकिट्टधणकिणोणकिटतोमित्याहितार्थो जहि स्यामेवासि स चेत् मगारिसधपानीसामिहोक्तं कृथाः ।। शृङ्गारसाररसपूरसुधारया ये सिञ्चन्ति कामशरतप्तहृदन्तरं ते ।
अन्तः प्ररूढनुतिहृष्टमनोजपुष्टतुष्टिप्रवाहमसकृद् दृशि सूचयन्ति ।। Colophon:
समाप्ता शृङ्गारसारसारिणीनाम्नीयं कृतिरतिरतिरहस्यसाधनीभूतश्लोकशोभितः विटोत्तमवाग्वृत्तिरत्युत्तमा ॥
No. 11991. स्तनपञ्चकम्.
STANAPAÑCAKAM. Page, 1. Lines, 5 on a page.
Begins on fol. 1b of the MS described under No. 5048. Five stanzas dealing witb certain bodily charms of women.
Contains three stanzas only. Beginning:
वराङ्गितनुभूषणं वरतनोनखैरङ्कितं विनिर्जितघटद्वयं विजितवारिजातान्वयम् । विदर्शितमनोभवं विजितशम्भुचापोन्नतं कु(च)दयमुपास्महे कुमुदबान्धवस्योदये ।
For Private and Personal Use Only