SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8002 À DESORIPTİVE CATALOGUE ON कश्चिजागरजातरागनयनद्वन्द्वः प्रभातश्रियं बिभ्रत्कामपि वेणुनादरसिको जाराग्रणीः पातु वः ।। अङ्गप्रभाभिराभीरस्त्रीणां मुदमुदश्चयन् । श्रेयसे भूयसे भयात् कोऽपि गोपालबालकः ॥ पष्पवाणविलासाख्यकाव्यस्य रसशालिनः । शृङ्गारचन्द्रिकाभिख्यां व्याख्यां विरचयाम्यहम ।। अथ कविः गोपिकावल्लभचरित्रप्रतिपादनपवित्रितं पुष्पबाणविलासाख्यं शृङ्गारकाव्यं चिकीर्षुरादौ मङ्गलत्वादाशिषं प्रयुङ्क्ते-- श्रीमदिति । अत्र प्रथमं भदेवताकस्य प्रयोगात् कर्तुरध्येतृणां च शुभं भवति । तदुक्तम् --- मो भूमिस्त्रिगुरुः श्रियं वितनुते नस्स्वस्त्रिलो जीवितं यो वार्यादिलघुः धृति च पवनो देशभ्रमं सोऽन्त्यगुः । रोऽग्नेिमध्यलघुः मृति दिनमणिमध्ये गुरुजों रुजं तो द्यौरन्त्यलघुः क्षयं मुरवगुरुः भस्तारकेशो पशः ॥ इति । अथ श्लोकार्थः श्रीः शोभा " श्रीवैषरशनाशोभासम्पत्सरलशालिषु । वाणीलक्ष्मीलवङ्गेषु” इति नानार्थरत्नमालायाम् । श्रीमत्यः शोभावत्यः या गोपवध्वः तासां ये स्वयङ्ग्रहपरिप्वङ्गाः आलिङ्गनानि । मध्यमपदलोपी समासः । स्वयग्रहेण परिष्वङ्ग इति तृतीयासमासो वा । तेषु ।। भुवनविदितमासीत्सच्चरित्रं विचित्रं सह युवतिसहस्त्रैः क्रीडतो नन्दसूनोः । तदविलमवलम्ब्य स्वादु शृङ्गारकाव्यं रचयतु मनसो मे शारदास्तु प्रसन्ना ॥ सम्प्रति कविः स्वचिकीर्षितं प्रतिजानन् तन्निर्वाहाय सरस्वतीप्रसादमाशास्ते-भुवनति । कान्ते दृष्टिपथं गते नयनयोरासीद्विकासो महान् प्राप्ते निर्जनमालयं पुलकिता जाता तनुः सुभ्रवः । वक्षोजग्रहणोत्सुके समभवत्सर्वाङ्गकम्पोदयः कण्ठालिङ्गनतत्परे विगलिता नीवी दृढापि स्वयम् ।। कारुन्तुदमेव कोकिलरुतं तस्याः श्रुते भाषिते चन्द्र(न्द्रा)लोकरुचिस्तदाननरुचेः प्रागेव सन्दर्शनात् । End: For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy