________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
THE SANSKRIT MANUSORIPTS.
7997 कुर्वित्यर्थः । पाणौ पाण्योः वलयश्रेणी रत्नकङ्कणजालं कलय मुञ्च; आरोपयेति यावत् । पदे चरणयुगले नूपुरौ कुरु निक्षिप । इत्युक्तप्रकारेण निगदितः उक्तः अत एव प्रीतः अनुरूपकायें नियुक्तवतीति सन्तुष्टचित्तः पीताम्बरस्तथाकरोत् । कुचादिषु पत्ररचनादिष्टः श्रीकृष्णोऽपीत्यांपशब्दार्थः ॥ Colophon :
इति श्रीजयदेवगीतगोविन्दसङ्ग्रहदीपिका समाप्ता ॥
No. 11966. गीतगोविन्दव्याख्या-सारदीपिका. · GITAGOVINDAVYĀKHYĂ; SĀRADIPIKĀ. Substance, palus-leaf (Śrītāla). Size, 9 x 1} inches. Pages, 188. Linos,
9 on a page. Character, Kanarese. Condition, slightly injured. Appearance, old.
Begins on fol. 2ia. The folios are numbered continuously from 81 to 174.
Coni plete.
This commentary on the Gītagõvinda called Sāradīpikā is by Jagaddhara.
The mau uscript is said to have been copied by Vēñkațēka Ayyan, son of Mukāmi Singaranga Ayyangār of Srirangapatņam, the copying having been completed on Wednesday, the 10th day of the dark fortnight of the Kārtikai month in the year Pramäti. Beginning:
करकलितभुजङ्गो मस्तके न्यस्तगङ्गो विहितनटनभङ्गो दत्तदैतेयभङ्गः । चिरविगलदनङ्गस्त्यक्तसङ्गोऽङ्गनाङ्गो भवतु मम विभूत्यै शम्भुरुन्मत्तगङ्गः ॥ १ ॥ नानाटीकाः समालोक्य विचिन्त्य सचिरं हृदा ।
गीतगोविन्दठीकेयं क्रियते श्रीजगद्धरैः ॥ २ ॥ इह कविनिर्विघ्नं प्रारिप्सितसमाप्तिमुद्दिश्य स्वेष्टदेवताभिकीर्तनरूपं मङ्गलं विधित्सुः महाकाव्यलक्षणीभूतं वस्तुनिर्देशमपि कटाक्षयति-मेधैरित्यादि । राधामाधवयोः रहाकेलयो जयन्ति गोपीविशेषकृष्णयोरेकान्तक्रीडितानि उत्कर्षेण वर्धन्तामित्यर्थः । राधा च माधवश्च राधामाधवौ ; चाथै इन्द्वः । राधा काचिद्गोपी ; “राधो वैशाखमासे स्याद्राधा गोप्यां च विद्युति" रि(इ)ति विश्वः । मा लक्ष्मी; तस्या धवः स्वामी माधवः । यहा
For Private and Personal Use Only