SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7988 À DESCRIPTIVE CATALOGUE OF A commentary on the work described under the last number. The name of the commentator is not given. Beginning: (सा)धिष्ठानन्तविद्युद्दलयनवधनच्छायमच्छामितोद्यद्विद्योतच्चिन्मयूरवप्रसरदमृतसन्दर्भधारासहस्रम् । विद्येशं श्रीशमीशं नलिनस(म)दशं सुप्रसन्नाननाब्ज व्यासं विज्ञानमूर्ति सकलगुणनिधिं देवदेवं नमामि ॥ अथ श्रीनारायणभट्टारकाः विघ्नविधातादिसाधनतयाविगीतशिष्टाचारपरम्पराद्यवगतं श्रीमन्नारायणस्तवनवन्दनरूपं मङ्गलं निर्विघ्नेन ग्रन्थसमाप्त्यादिस्वाभिमतसिद्धये कृत्वा सन्निहितशिष्यशिक्षार्थ ग्रन्थादौ निबध्नाति वन्द इत्यादिना । अहं ब्रह्म वन्द इत्यन्वयः । वि(व)दि अभिवादनस्तुत्योरिति धातोः स्तौमीत्यर्थोऽपि ग्राह्यः । ब्रह्मणि जीवाः सर्वेऽपीत्यादिश्रुतेः ब्रह्म शब्दस्य जीवेऽपि प्रसिद्धेस्तद्वारयितुमाह-नारायणाख्यमिति तद्विशेषणमाह-वन्द्यमिति । वन्दितुं योग्यमित्यर्थः । ब्रह्मादिवन्द्यत्वोक्ताविष्टत्वोपपादनम् । व्यक्तमिति व्यापनाक्रियाविशेषणम्. जगदभिरामं जगन्मनोहरम् । दधानः । स्मरन्नित्यर्थः । सर्गान्ते सर्वत्र रामनामाङ्कितपद्यकरणात् कविरात्मनो रामचरणप्र(व)णतां प्रकटयति ॥ Colophon: इति भावरत्नप्रदीपे बालकाण्डे प्रथमः सर्गः ।। End: हसितं मन्दहास एव सितगुश्चन्द्रः बन्धुर्वेषां ते तथा तान् । प्रेमपीयूषसिन्धून् प्रेमाख्यामृतसमुद्रान भुवनजननरक्षाभङ्गविषयकलीलायाः प्रकृष्टसम्बन्धो येषां ते तथा तान् । अपाङ्गमात्रेण सृष्ट्यादिकरणादिति भावः । कमलायै दत्तशेषान् अपाङ्गान् अपाङ्गनिरीक्षणानि च वितरति कुरुत इत्यन्वयः ॥ Colophon: इति सङ्ग्रहरामायणभावदीपिकायामुत्तरकाण्डे अष्टमः सर्गः ।। प्रश्नमौकपुरस्वप्रघुट्टाज्वलहनुमन्ताचार्यस्य शिष्यशेषमाधवेन कलियुगे ४९६५ रुधिरोद्गारिनामके उत्तरायणे शिशिर? माघशुद्धैकादश्यां गुरुवासरे वृषभलमे सम्पूर्णम् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy