SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7966 A DESCRIPTIVE CATALOGUE OF गुणकां गुणकाख्यां पुरीम् उढोल्लासं प्राप्तविलासम् उढः प्राप्तः उल्लास हर्षों वा यथा भवति तथा। प्रविश प्राप्नुहि । अनेन पक्षिणी केवलं त इत्यत्रोक्तं शुकस्य नवतिनाडिकागन्तव्यत्वमपि प्रतिपादितप्रायम् ॥ Colophon: इति श्रीमानवेदभूपविरचितायां शुकसन्देशव्याख्यायां विलासिनीसमा ख्यायां . . . . . नाम तृतीयं प्रकरणम्। समाप्ता च पूर्वसन्देश व्याख्या ॥ End: मूले मूले मुकुलितधृतिर्मुर्छनामभ्युपैति मध्येफालं फडिति फल(य)त्येष वामं हि दैवम् । कल्लोलिन्यः कलुषकलुषं कुर्वते मानसं मे प्राणात्प्राणेश्वरि न विरहे न ह्यहं धारयामि ।। ही चित्रं मे हिमलवभृतो मारुताः वेदयन्ति इत्यादिभिः स्वतस्सिद्धेऽपि कामे अत्यन्तसक्तश्चेदयमिव विश्लेषदुःखाभि . . . . . . भूदित्यस्य च व्यञ्जनाव्यापारेण प्रतिपादनात् सफलोऽयं कवर्महान् लोकानुग्रहपरिक्लेशः काव्यस्योपादेयता चेति सर्वमवदातमिति सुधीभिर्विभावनीयम् ।। Colophon: ... इति श्रीमानवेदभूपविरचितायां शुकसन्देशव्याख्यापां विलासिनीसमाख्यायां प्रमेयपरिनिष्ठापनं नाम द्वादशं प्रकरणम् ॥ सम्पर्णश्नोत्तरसन्देशः ॥ लक्ष्मीदासकवेरुदारवचसः सन्देशकाव्याङ्गजो बह्वर्थश्रुतत्तिमण्डनगुणश्रीमानवेदान्नृपात्। जातामद्य विलासिनी सहृदयां गृह्णन बुधेभ्योऽधिकं दत्वार्थान् दृढरक्षितान् जनयतादानन्दमस्यां सदा ॥ श्रीरङ्गनाथकरुणामसृणावलोकलीलासमुल्लसदुरुश्रुतकाव्यसारः । व्याख्यामिमां रचितवान् स तु मानवेदः किं दुष्करं गुरुकृपावरदेवतानाम् ॥ क्ष्माभृत्पाथोधिनाथान्वयमहितकुलप्राप्तमव्याजचन्द्रः सातीर्थे यस्य लेभे श्रुतसराणिविदां शेखरः शेरवरश्च । सोऽयं सन्देशसिन्धुं कथमपि सरसं साधु निर्मथ्य ताभ्यामर्थास्वार्द्र (दं)चिरेणाप्यलभत विबुधाग्रेसरो मानवेदः ।। शुकसन्देशः समाप्तः ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy