SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7702 A DESCRIPTIVE CATALOGUE OF Contains the Sargas one to seven only. A glogs on the Kirātārjunīga : by Krşņakavi. He quotes from the work of Bhattanārāyaṇa, Beginning: श्रीवत्सवक्षसं श्रीशं प्रणम्यार्जुनसारथिम् । किरातार्जुनकाव्यस्य मया ठीका प्रतन्यते ॥ . . . . . . . . . . । (विद्वांसः) क्षन्तुमर्हन्ति कस्य नास्ति हि विभ्रमः ॥ पूर्वमेव कृता चार्थव्याक्रिया सापसनुना । ततोऽप्यर्थं समादाय क्रियतेऽत्रार्थनिश्चयः श्रियः कुरूणामित्यादि । सर्वेषामेव कवीनां काव्यकरणे प्रत्तानामाशीर्नमत्क्रियावस्तुनिर्देशानामन्यतमपूर्विका प्रवृत्तिदृष्टा । तद्यथा-अव्यात्स वो यस्येति भट्टनारायणस्य ; जगतः पितरौ, अस्त्युत्तरस्याम् इति च कालिदासस्य । एवमत्र नास्ति । अत्रायमभिप्रायो लक्ष्यते । विशिष्टपुरुषोदेशकथाप्रसङ्गो हि लोके धर्मः । स चाभ्युदयहेतुर्भवति । आशीरादयश्चाभ्युदयहेतव इति । अत्रादौ प्रयुक्तः श्रीशब्दो मङ्गलार्थः । सोऽप्यभ्युदयहेतुः । नमस्क्रिया आशीश्चापि ख्यापिता भवन्ति । महाकाव्यं चेदम् । * निवासो जनपदः । तस्य निवास इत्यण् । जनपदे लुबिति लुप भवति । ननु जनपदशब्देन कुरुशब्देन कुरूणामेव जनपदानामधिपः स्यात् न सर्वेषां सर्वजनपदत्वादोषप्राधान्यख्यापनार्थं वा रूढिविषयं वा एवमुक्तम् । यथाश्रीशीलाढ्यो नृपतिः सार्वभौमोऽपि सौराष्ट्र इत्युच्यते । अथवा कुरोरपत्यानीति कुर्वादिभ्योऽण् । तस्य तद्राजेति लुक् । ननु एवमप्यसौ युधिष्ठिरादीनां स्वामी न भवति बाहुल्यापेक्षत्वान्न दोषः । श्रियः कुरूणामधिपस्येति षष्ठीत्रयं श्रूयते । कुरूणां श्रिय इति पालनीशब्दापेक्षया कर्तृकर्मणोः कृतीति कर्मणि षष्ठी। ___ अयुङ्केति । (बु)द्धिपरिकल्पितमनद्यतन (त्व)माश्रित्य । लुङ(ड्ययु)तेति वा । वेदितुं विज्ञातुं यमयुक्त स आययौ । वर्णिलिङ्गी वर्णिन इव लिङ्गं यस्येति कर्तर्युपमाने णिनिः । विदित इति राजनीति दर्शयति । अज्ञानान्निवे. दितुं राजकुले प्रवेशात् ॥ For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy