________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
THE SANSKRIT MANUSCRIPTS.
End :
छायां जनः समभिवाञ्छति पादपानां नक्तं तथेच्छति पुनः किरणं सुधांशोः । हर्म्य प्रयाति शयितुं सुखशीतलं च कान्तां च गाढमुपगूहति शीतलत्वात् ॥ मलयपवनविद्धः कोकिलेनाभिरम्यः सुरभिमधुनिषेकाल्लब्धगन्धप्रबन्धः । विविधमधुपयूथैर्वेष्ट्यमानः समन्तात् भवतु तव वसन्तः श्रेष्ठकालः सुखाय ॥ Colophon :
इति श्रीकालिदासकृतौ ऋतुसंहारकाव्ये वसन्तवर्णना समाप्ता ॥
End:
Acharya Shri Kailassagarsuri Gyanmandir
No. 11832. किरातप्रबन्धः. KIRATAPRABANDHAH.
Substance, Śrītāla. Size, 6 x 18 inches. Pages, 5. Lines, 8 on a page. Character, Malayālam. Condition, good. Appearance, new.
Begins on fol. 20a. The other works herein are Krsṣṇaprabandha la, Santānagāpālaprabandha 23a, Pañcālisvayarivara
a
Incomplete.
A poem describing the comhat between Siva, disguised as a hunter, and Arjuna in the course of his severe penance for obtaining the divine missile, Pāśupatastra.
Beginning :
7913
रे क्षुद्रात्मन् किरात श्वगणपरिवृतः क्षुल्लकैः सार्धमेभिः
मार्गन् मार्गाण्यभीक्ष्णं गिरितटभुवि नो वेत्सि वृत्तानि राज्ञाम् । अज्ञात्वा तत्त्वतो माममरपुरवधूगीय मानापदानं
697-A
युद्धायासि प्रवृत्तः फलमनुभव चास्याविवेकस्य सद्यः ॥ रे क्षुद्र क्षितिपतिवंशकीट साक्षात् कर्तारं जगदवगच्छ साम्प्रतं माम् । यद्वंशं व्यपदिशसि स्फुटं तमेनं जानामि प्रकटकलङ्कबंहिमानम् ।
रे रे मांसिकपाश यत्त्वमधुना चन्द्रस्य वन्द्यं कुलं साक्षान्निन्दसि गर्हसे यदपि नः सर्वे तदेतत्सहे । यच्चेवं त्रिपुरद्रुहो भगवतः कुत्सां विधित्सेतरां तच्छ्रेोतारमहो घिगद्य बत मां धिग् गाण्डिवं हा शरान् ॥ अथ भिल्लमल्लकुरुवल्लभावुभौ परिफुल्लभल्ल कुलशल्यपल्लवैः । स्थगितावलोकसरणिं दिवौकसां समरं भयङ्करजवं वितेनतुः ॥
For Private and Personal Use Only