SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir A DESCRIPTIVE CATALOGUE OF 7872 इन्द्रप्रस्थगमाद्यपायविषयश्चैद्यावसादः फलं धन्यो माघकविर्वयं च कृतिनस्तत्सूक्तिसंशीलनात् ।। इहान्वयमुखेनैव सर्व व्याख्यायते मया । नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥ अथ तत्रभवान् माख(घ)कविः "काव्यं यशसेऽर्थकृते व्यवहारविदे शवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे" इत्यालङ्कारिकवचनप्रामाण्यात्काव्यस्यानेकश्रेयस्साधनताम् , “ काव्यालापांश्च वर्जयेत्" इति निषेधशास्त्रस्यासत्काव्यविषयतां च पश्यन् शिशुपालवधाख्यं महाकाव्यं चिकीर्षश्चिकीर्षितार्थाविघ्नपरिसमाप्तिसम्प्रदायाविच्छेदलक्षणफलसाधनत्वादाशीनमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमित्याशीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च काव्य फलशिशुपालवधबीजभूतं भगवतः श्रीकृष्णस्य नारददर्शनरूपं वस्त्वादौ श्रीशब्दपूर्वकं निर्दिशन् कथामुपक्षिपति–श्रिय इति । अत्रादौ श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिरभ्युच्चयः । तदुक्तम् :__ " देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि वा। ” इति । श्रियः लक्ष्म्याः पतिः । एतेन रुक्मिणीरूपया प्रि(य)या युज्यत इति सूचितम् । “राघ(व)त्वेऽभवत्सीता रुक्मिणी कृष्णजन्मनि ।” इति विष्णुपुराणात् । जगनिवासो जगतामाधारः; कुक्षिस्थाखिललोक इति भावः । तथापि जगत् लोकं शासितुं दुष्टनिग्रहशिष्टप्रतिपालनाभ्यां नियन्तुं श्रीमति वसुदेवसद्मनि वसुदेवरूपिणः कस्य(श्य)पस्य वेश्मनि वसन् कृष्णरूपेण तिष्ठन् हरिर्विष्णुः अम्बरादवतरन्तमापतन्तम् ; इन्द्रसन्देशकथनार्थमिति भावः । हिरण्यस्य गर्भो हिरण्यगर्भः; ब्रह्माण्डप्रभ(व)त्वात् , तस्याङ्गभुवं तनूजम् , अथ वा तस्याझादवयवादुत्सङ्गाख्याद्भवति(तीति) हिरण्यगर्भाङ्गभूस्तं मुनिम् ; नारदमित्यर्थः । "उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात्स्वयम्भुवः ।" इति भागवतात् । ददर्श; कदाचिदिति शेषः । अत्राल्पीयसि वसुदेवसद्मनि सकलजगदाश्रयतया महीयसो हरेराधेयत्वकथनादधिकप्रभेदोऽर्थालङ्कारः । तदुक्तम्--- . 'आधाराधेययोरानुरूप्याभावोऽधिको मतः" इति । जगन्निवासस्य जगदेक(देश)वासित्वमिति विरोधश्च । तस्य महिनोऽ. निर्वाच्यत्वात्तस्याभासश्च । तथा तकारसकारादेः केवलस्यासकृदावृत्त्या जगज्ज For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy