________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
TAR BANSKRIT MANUSCRIPTS.
7871
No. 11770. शिशुपालवधः, सव्याख्यः. ŠIŚ OPĂLAVADHAỊ WITH COMMENTARY. Substance, paper. Size, 128 x 8 inches. Pages, 590. Lines, 24 on a
page. Character, Teluga. Condition, good. Appoarance, new.
Contains the Sargas 1 to 14 complete and 1 to 82 stanzas in the 15th Sarga
The poeun of Māghakavi with the well-known commentary of Mallinātha, called Sarvankaşă
Beginning:
श्रियः पतिः श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि । वसन्ददर्शावतरन्तमम्बराद्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ॥ इन्दीवरदलश्याममिन्दिरानन्दकन्दलम् ।
वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ।! दन्ताश्चलेन घरणीतलमुन्नमय्य पातालकेशि(लि)षु धृतादिवराहलीलम् । उल्लाघनोत्फणफणाधरगीयमानक्रीडापदानमिभराजमुखं नमामि ।। शारदा शारदाम्भोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ।। वाणी काणभुजीमजीगणदवासासीच्च वैयासिकीमन्तस्तन्त्रमरंस्त पन्नगगवीगुम्भेषु चाजागरीत् । वाचामाचकलद्रहस्यमखिलं यश्चाक्षपादस्फुरां लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः ।। मल्लिनाथकविः सोऽयं महोपाध्यायशब्दभाक् । विधत्ते माघकाव्यस्य व्याख्यां सर्वकषाभिधाम् ।। ये शब्दार्थपरीक्षणप्रणयिनो ये वा गुणालंक्रियाशिक्षाकौतुकिनो विहर्तुमनसो ये च ध्वनेरध्वनि । क्षुभ्यद्भावतरङ्गिते रससुधासिन्धौ मिमङ्क्षन्ति ये तेषामेव कृते करोति(मि) विवृतिं माघस्य सर्वङ्कषाम् ॥ नेतास्मिन्यदुनन्दनः स भगवान्वीरः प्रधानं रसः शृङ्गारादिभिरङ्गवान्विजयते पूर्णाः पुनर्वर्णनाः ।
For Private and Personal Use Only