________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
1694
À DESCRIPTIVE CATALOGUE OB
साम्राज्याधिकृतेन तेन विहितो यस्मिन् गुरोर्निष्क्रयः तेनैवार्पितजीवनो भवति यः प्रत्यब्दमब्दश्रिया ॥ यो भूयोऽपि च भूतये समयते सामन्तसीमन्तमण्युहीप्रातिकमाठभूपरिबृढ श्रीरामवमेक्षणम् । तत्काव्यामृतराशिपारमगमत्सर्गः पुनः षोडशः काव्य चोत्तरनैषधीयचरितं पुण्येन पूर्णश्रियम् ॥
No. 11456. उत्तरराघवीयम्.
UTTARARAGHAVIYAM. Bubstance, paper. Size, 8 X 5 inches. Pages, 282. Lines, 9 on a page.
Character, Divanagari. Condition, good. Appearance, new. Complete.
A poem in five Sargas dealing with the incidents in the life of Bama and Sita after their coronation. In the first ten stanzas the story of the Rāmāyaṇa up to the recovery of Sīta after killing Rāvana is briefly indicated. Beginning:
कृताभिषेकोऽथ रघुप्रवीरः क्षितिं चतुःसागररत्नकाश्चीम् । शशास धर्मेण निजप्रतापप्रकाशिताशेषदिगन्तरालः ॥ निशाचराधीशनिदाघतापं सुधाशनानामपनेतुकामः । नवाम्बुदामो मिहिरान्वये यः सहानुगैराविरभूदमेयः ॥ क्रमेण शीतांशुरिवातिरम्यः प्रपूर्णनिःशेषकलाकलापः । निजेन वृत्तेन च यः समस्तं प्रमोदयामास सतां समाजम् ॥ अधीतविद्यश्चलकाकपक्षः सहानुजो गाधिसुतानुयायी ।
महावने ताडितताटको यः क्रमेण सिद्धाश्रमभूमिमाप ॥ End:
उद्यत्कौतूहलायां परिषदि मुनिगन्धर्ववृन्दारकानामुत्तुङ्गे जृम्भमाणे वियति जयगिरा मेदुरे तूर्यघोषे । पादान्ते सन्नताङ्गं पतगकुलमहाराजमारुह्य साक्षा
वेदान्तावेद्यधामा नरकविमथनो नाकलोकं प्रपेदे ॥ Colophon:
इत्युत्तरराघवीये पचमः सर्गः ॥ समाप्तश्चायं ग्रन्थः ॥
For Private and Personal Use Only