SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7830 A DESCRIPTIVE CATALOGUE OF स्फुरत् परमुत्तमं सुरसाः भासुराः उज्ज्वलाः अर्थाः अभिधेया यस्मिन् तत् जयन्ती सर्वोत्कर्षेण वर्तमाना कथानां त्रयी यस्मिंस्तत्तथोक्तम्। प्रतनु स्वल्पं संक्षिप्तमित्यर्थः । अलसजनदुस्तरस्य विस्तरस्याप्रयोजकत्वादिति भावः । काव्यरत्नं काव्यश्रेष्ठ करोति, “ रत्न श्रेष्ठे मणौ च स्यात्समौ भासुरभास्वरौ । अर्थेऽभिधेये स्वे शास्त्र व्यवहारे प्रयोजने । अन्यत्र सुभासिनी वाक् यस्य सः सुभासिवाक, स्त्रिया: पुंवदित्यादिना पुंवद्भावः । चिदम्बरः विशदसारस्थ सारस्वतस्य सरस्वत्सम्बन्धिनः प्रवाहस्य वरभूषणं क्षीराब्धिशायिनमित्यर्थः । ईश्वरं कमलेक्षणमरविन्दाक्षं हरि हृदि निधाय सुरसः भासुरः अर्थः प्रयोजनं यस्मात्तत् । प्रतनु प्रकृष्टम(ष्टा)कार काव्यमेव रत्नं मणिं करोति । पद्मनाभोऽरविन्दाक्षः, सरस्वन्तौ नदार्णवौ । अपरत्र चिदम्बरः विशदसारः सारस्वतः सरस्वत्या नद्याः सम्बन्धी प्रवाह एव वरभूषणं यस्य तम् , गङ्गाधरमित्यर्थः । ईश्वरं शम्भुं हृदि कमलेक्षणं विधाय काव्यरत्नं करोति । सरिद्धदे सरिन्मात्रे गवि क्षित्यां सरस्वती । अर्थान्तरे । चिदम्बरः ज्ञानाम्बरः ज्ञानालङ्कत इत्यर्थः, वस्त्रस्यालङ्कारमुख्यत्वाभिधानात् । बुधः सोमस्य सुतः, परमः अलसत्सुरसभानामस्फुरदेवसदसामसुराणामित्यर्थःत(मर्थो यस्मात्तत् । जयन्ती कथा वार्ता त्रयी च यस्मिस्तत्, काव्यः शुक्र एव रत्नमिति रूपकालङ्कारः । तत् काव्यरत्नम् । प्रतनु करोति अतिशेते इत्यर्थः । “शुको दैत्यगुरुः काव्यः” तनुरल्पशरीरयोरिति निघण्टुः । शुक्रबुधविषयशब्दशक्तिमूलो ध्वनिः । प्रतिपाद्याः कथा विवृण्वन् उदारतत्सारस्वारस्येन स्वप्रबन्धस्य विद्वज्जनादरणीयत्वं प्रार्थयते-अस्त्विति । (मू.) अस्तु रसेन सदाशयतुष्यै निस्तुलसारमिदं निभृतेन । लाघवकारिसुधालहरीणां राघवपाण्डवयादवकृत्तम् ॥ व्या-निभृतेन नितरां भृतेन पूर्णेन रसेन सुधालहरीणाममृतस्रुतीनां लाघवकारि लघुत्वकरम् ; अमृतादप्युदारसारमित्यर्थः । राघवपाण्डवयादवानां वृत्तं रामायणभारतभागवतात्मकमिदं काव्यरत्नं सतां विदुषामाशयस्य हृदयस्य तुष्ट्यै सन्तोषाय अस्तु । विदुषां प्रवृत्तिरुच्यर्थ सुखव्युत्पत्तिनिमित्तं ललितसाधनमिलितत्वमभिदधानः सक्षिप्ततामेव कृतेः [प्रकृते रणेन विवृणोतिपञ्चाशदिति । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy