________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
590-A
THE SANSKRIT MANUSCRIPTS.
Acharya Shri Kailassagarsuri Gyanmandir
No. 11624. यादवाभ्युदयम्. YADAVABHYUDAYAM.
Substance, paper. Size, 103 x 8 inches. Pages, 263. Lines, 20 on a
page. Character, Dāvanāgari. Condition, good Appearance, new. Contains the Sargas 1 ( of which the last stanza is wanting ), 3 to 5, 7 to 17 (which last breaks off with the 38th stanza), and 20 to 21.
A poem in 24 Sargas written by Venkatanatha, well-known as Vedäntadesika, on the model of the Raghuvamsa of Kalidasa and dealing with the stories and incidents relating to Krsna from His birth, as found in the Harivamsa. This work has been printed partly. Beginning :
श्रीमान् वेङ्कटनाथार्यः(. . . ) सन्निधत्तां सदा हृदि ॥ वन्दे बृन्दावनचरं वल्लवीजनवल्लभम् । जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥ यदेकैकगुणप्रान्ते श्रान्ता निगमबन्दिनः । यथावद्वर्णने तस्य किमुतान्ये मितंपचाः ॥ शक्तया शौरिकथास्वाद: स्थाने मन्दधियामपि । अमृतं यदि लभ्येत किं न गृह्येत मानवैः ॥ वसुधा श्रोत्रजे तस्मिन् व्यासे च हृदयस्थिते । अन्ये च कवयः कामं बभूवुरनपत्रपाः ॥ स कविः कथ्यते स्रष्टा रमते यत्र भारती । रसभावगुणीभूतैरलङ्कारगुणोदयैः || तदात्वे नूतनं सर्वमायत्यां च पुरातनम् । न दोषायैतदुभयं न गुणाय हि कल्पते ॥ प्रवृत्तामनघे मार्गे प्रमाद्यन्तीमपि कचित् । न वाचमवमन्यन्ते नर्तकीमिव भावुकाः || विहाय तदहं व्रीडां व्यासवेदार्णवामृतम् । वक्ष्ये विबुधजीवातुं वसुदेवसुतोदयम् ॥ क्रीडातूलिकया तस्मिन् कृपारूषितया स्वयम् । एको विश्वमिदं चित्रं विभुः श्रीमानजीजनत् ॥ जगदावे (हा) दनो जज्ञे मनसस्तस्य चन्द्रमाः । परिपालयितव्येषु प्रसाद इव मूर्तिमान् ॥
For Private and Personal Use Only
7801