SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir *7778 A DESCRIPTIVE CATALOGUE OF Beginning: जगत्रयं बिभ्रदुपात्तसच्चो वषेण गच्छन् सुखबोधमूर्तिः । तनौ दधानोऽनुपमश्रियं तां शिवां शिवं वो विदधातु देवः ॥ जाताब्धितो ला(वा)प्रथिताचलाद्या संप्राप नित्येश्वरदेहयोगम् । श्रियं दधानां श्रिततद्गुणौघां नमामि वन्द्यां जगतोऽम्बिकां ताम् ॥ द्विजैक्यरूढो विधुसङ्गताङ्गः स्तुतः सुरेन्द्ररमृतस्य दाता । विनीतविघ्नो विनतातिहारी विनायकः स्याद्विनयश्रिये वः ॥ कथाहृयश्लेषकृतौ नवायां विमूढबुद्धेरपि विस्मयः स्यात् । अनर्घमेतद्भुवि काव्यरत्नं क एष न स्वीकुरुते गुणज्ञः ॥ यतोऽत्र गङ्गायमुनानुरूपे श्लिष्टे महेशाच्युतयोः कथे द्वे । अतश्चतुर्वर्गफलानि साक्षाद्भवेयुरस्याश्रयिणां नराणाम् ॥ जगत्यजय्यो जगतीपतीनां पतिः प्रतिष्ठारिवलसद्गुणानाम् । चुलुक्यवंशप्रभवः प्रभावान् पृथुप्रभावो भुवि सोमदेवः ॥ कलानिधेरीश्वरभूषणस्य प्रमादिनो विष्णुपदाश्रयस्य । सुधात्मकस्याब्धिभुवो निशेशो यस्यार्थयुक्ता भुवि सोमसंज्ञा ॥ ज्ञात्वा कलौ शत्रुभयं भविष्यद् भुवि त्रयीधर्मसुरद्विजानाम् । संरक्षणायेव ससर्ज धाता यद्राज्यदुर्ग विगतोपसर्गम् ॥ अधर्मधात्रा कलिनाविलेषु रिवलीकृतेषु क्षितिपालकेषु । निराश्रयाणां नृपसद्गुणानां परं भवत्यास्पदमक्षयं यः ॥ कलास्वाभिज्ञः सकलासु वक्ता शृणोति सूक्तानि विपश्चितां यः । अर्थं विजानाति गुणान् मिमीते प्रसीदतीष्टं प्रददाति चार्थम् ।। श्रिया हरि भोगितया महेन्द्र रूपेण कामं रुषितेन रुद्रम् । प्रदानशक्तया सुरपादपं यो विडम्बयत्यम्बुनिधि च धृत्या ॥ महीभृता तेन महाकवीनां प्रियेण रागात् परिपाल्यमानः । महीतलव्यापि महत्तदीयं यशश्शरीरं परिपालयिष्यन् ॥ महाकवीशोन्नतभद्ररुद्रो वादीन्द्रराजाधिपजामदग्न्यः । ज्योतिर्गतिज्ञानचतुर्मुरवश्च विद्यामहामाधवपण्डिताख्यः ॥ हिमाद्रिकन्यासहितं महेशं लक्ष्मीसमेतं मधुसूदनं च । For Private and Personal Use Only
SR No.020205
Book TitleDescriptive Catalogue of Sanskrit Manuscripts in Madras Vol 20
Original Sutra AuthorN/A
AuthorS Kuppuswami Shastri
PublisherGovernment of Madras
Publication Year1918
Total Pages454
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy